Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 198
________________ प्रशमरतिः हारि. वृत्तिः ॥ ५८ ॥ Jain Educatio जिनशासनार्णवादाकृष्टां धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥ ३१० ॥ इह चतुर्थगणः पञ्चमात्र इति । एतत्फलं - जन्यं । कुतः ? - प्रशमरतेः सकाशात् । कीदृशम् ? - शुभमिह स्वर्गापवर्गयोश्च प्राप्यते । कैः १ - अनगारैः - साधुभिः, तथा अगारिभिः - गृहिभिश्च उत्तरगुणाढ्यैः - निजभूमिकापेक्षया पिण्डविशुद्ध्यादिदिग्नतादिसमृद्धैरिति ॥ ३०९ ॥ जिनशासनार्णवात् - तीर्थ कृदागमसिन्धोरा कृष्टां - आनीतां धर्मकथिकां - द्विविधधर्मप्रतिपादिका - मिमां प्रशमरतिमेतच्छास्त्रं कर्मतापन्नं । किं कृत्वा ? - श्रुत्वा - आकर्ण्य । कस्मादिव काम् ? - रत्नाकरादिव जरत्कपर्दिकांजीर्णवराटिकां समुद्धृतां समाकृष्टां । कया ? - भक्त्या - प्रशमप्रीत्या । अयमर्थः - आकृष्टामिति जिनशासनादित्यत्र योज्यम् । | उद्धृतामिति रत्नाकरादित्यत्र सम्बन्धनीयम् । अत्रार्याद्वयक्रियाकारकघटनैवं बोद्धव्या - इमां धर्मकथिकां श्रुत्वा फलं शुभं प्रशमरतेः संप्राप्यतेऽनगारैरगारिभिश्चेति ॥ ३१० ॥ साम्प्रतं सत्पुरुषैर्यादृग्गुणोपेतैर्ये त्याज्या ये च ग्राह्या यन्निमित्तश्च यत्नो विधेयस्तदेतत्सर्वमाह - सद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं प्रशमसुखायैव यतितव्यम् ॥ ३११ ॥ सद्भिः - सत्पुरुषैर्गुणदोषज्ञैः - यथावस्थितगुणदोषविद्भिः, किं कार्य ? - दोषानुत्सृज्य - परित्यज्य गुणलवा ग्राह्या-गुणांशा ग्राह्याः, प्रकटनीयाः । केन ? - सर्वात्मना च - अशेषप्रकारैरपि सततं - अनवरतं । तथा प्रशमसुखायैव यतितव्यं - यत्नः कार्य इति ॥ ३११ ॥ ॥ इति प्रशमरतिफलाधिकारः २२ ॥ ional For Private & Personal Use Only प्रशमरति श्रवणफलं 1146 11 ainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240