Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षामणं
शासनशंसाच
SUSRUSARSURRORICANTRA
साम्प्रतमौद्धत्यं परिहरन् छद्मस्थत्वात् स्वस्य सदोषतां पश्यन् अन्यैश्च यद्विधेयं तदर्शयन्नाहयच्चासमंजसमिह च्छन्दःशब्दसमयार्थतोऽभिहितम् । पुत्रापराधवन्मम मर्षयितव्यं बुधैः सर्वम् ॥३१२॥ यत्पुनरिह-अत्र प्रशमरतिप्रकरणेऽसमंजसं-असंगतं तन्मम मर्षयितव्यमिति योगः। छन्दो रचनाविशेषः शब्दः-संस्कृति तादिभेदभिन्नः समयः-सिद्धान्तः तस्यार्थः-अभिधेयस्तेषां द्वन्द्वः तेभ्यस्ततः-तानाश्रित्य अभिहितं-प्रतिपादितं पुत्रापराधवत्-तनयविनाशवत्पित्रेव तन्मर्षयितव्यं-सोढव्यं बुधैः-विद्वद्भिः सर्वमिति ॥ ३१२॥
सांप्रतमवसानमङ्गलमाहसर्वसुखमूलवीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधनधनमर्हच्छासनं जयति ॥ ३१३॥
जयति-अतिशेते। किं तत्-अर्हच्छासनं । कीदृशं?-सर्वसुखानामैहिकामुष्मिकाणां मूलं कारणमिति समासः। सर्वार्थानां विनिश्चयो-निर्णयस्तस्य प्रकाश:-प्रकटनं तं करोतीति समासः। सर्वगुणानां-क्षान्त्यादीनां सिद्धिः-निष्पत्तिस्तस्याः |साधने-निष्पादने धनमिव धनं, यथा धनेन सता सर्वाणि कार्याणि सिध्यन्ति तथा क्षान्त्यादिगुणावाप्तिसाधने धनकल्पमहेच्छासनं-जैनागमो जयति-विजयमनुभवतीति ॥ ३१३ ॥
यत्यालये मन्दगुरूपशोभे सन्मङ्गले सदुद्धराजहंसे । तारापथे वाऽऽशुकविप्रचारे श्रीमानदेवाभिधसरिगच्छे ॥१॥ भव्या बभूवुः शुभशस्यशिष्याः, अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्बहुभक्तियुक्तैः, प्रज्ञाविहीनैरपि शास्त्ररागात्॥२॥
SEARNAGAR
Jain Educatio
n
al
For Private & Personel Use Only
Trainelibrary.org

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240