Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 195
________________ अवान्तरसुखफले पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः। सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभवभावात् ॥३०१॥ यः पुनरनिर्दिष्टनामा यतिः-साधुः। कीदृशः?-घटमानः-चेष्टमानः तां तां क्रियां कुर्वन् , तथा सम्यक्त्वज्ञानशीलैः कृतद्वन्द्वैः सुगमाथैः संपन्नः-युक्तः २। तथा अनिगूहमानः-अनाच्छादयन् । किं तत् ?-वीर्य-उत्साहम्, कथम् ?-शक्त्यनुरूपं यथाशक्ति । केन ?-प्रयत्नेन-आदरेणेति ॥ २९६ ॥ संहननं-वज्रऋषभनाराचमायुः अशेषकर्मक्षपणसमर्थं बलं | शरीरादिसमुद्भवं कालो-दुष्पमसुषमादिः वीर्यसंपद्-उत्साहसमृद्धिः समाधिः-चित्तस्वास्थ्यं एषां षण्णां पदानां वैकल्याद्असंपूर्णत्वात् , तथा कर्मातिगौरवाद्वा-ज्ञानावरणादिकर्मणां बहुस्थितित्वादिति हेतुद्वयात् स्वार्थ-कर्मक्षयमकृत्वा-अविधाय उपरमं-पर्यन्तमेति-गच्छति ॥ २९७ ॥ सौधर्मादिषु सर्वार्थसिद्धिचरमेष्वन्यतमकेषु स भवति देवो वैमानिको महान्तिपूज्यानि 'अर्ह मह पूजायामिति धातोः ऋद्धिद्युतिवपूंषि यस्य स तथेति ॥२९८॥ तत्र-विमाने सुरलोकसौख्यं चिरंप्रभूतकालमनुभूय स्थितिक्षयात्तस्मात् पुनरपि-भूयोऽपि मनुष्यलोके-नरलोके गुणवत्सु-सम्यक्त्वादिगुणयुतेषु मनुष्यसंघेषु पित्रादिप्रचुरजनेष्विति ॥२९९॥ जन्म समवाप्य सेत्स्यतीत्यत्रा(स्या)प्यग्रे सम्बन्धः, कीदृशः सन् ?, कुलं-उग्रादि बन्धुः-पित्राहै दिवंशः विभवो-धनादिः रूपं-करादिसमतास्वभावं बलं-प्राणो बुद्धिः-औत्पत्त्यादिकाताभिःसंपन्नो-युक्तः २।तथा श्रद्धा-| दिभिः पञ्चभिः कृतद्वन्द्वैः प्रसिद्धार्थः (ग्रंथ १७००) समग्रः-समन्वित इति ॥३०॥ तथा पूर्वोक्ताभिर्भावनाभिर्भावितोन्तरात्मा-मनो यस्य स तथा । विधूतः-अपनीतः संसारो येन स तथा । किं -सेत्स्यति-मोक्षं यास्यति । ततोमनुजभवात् परं-अनन्तरं स्वर्गान्तरितः। कथं ?-प्रथमभवे चारित्री द्वितीयभवे देवः तृतीये मनुजः, तत्र चारित्रं| SOCCESSORI ASOSIASA GAJainelibrary.org Jain Education a For Private 8 Personal Use Only l

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240