Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
*********H
ARRRRRRRRRRIA
सर्वथोच्छिद्यते प्रदीपवत् , यथा प्रदीपो भास्वररूपतामपहाय तामसरूपतां याति । तथा सर्वज्ञाज्ञोपदेशाच्च हेतो भावो, | सिद्धयोजिनागमभणनाच्चेति ॥ २९॥
प्रगतिः त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच ॥ २९१ ॥ नाधो गौरवविगमादशक्यभावाच गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥२९२॥
योगप्रयोगयोश्वाभावात्तिर्यग् न तस्य गतिरस्ति । सिद्धस्योवं मुक्तस्यालोकान्ताद्गतिर्भवति ॥ २९३ ॥ त्यक्त्वा-हित्वा । किं ?-शरीरमेव बन्धनं २ इहैव-मनुजभवे । तथा कृत्वा, किं ?-कर्माष्टकक्षयं न स तिष्ठति । कुतःअनिबन्धान्-मनुजादिभवकारणानामत्यन्तप्रलयात् । तथा अनाश्रयाच्च, मुक्तस्य हि मनुजभवो नाश्रयः, किंतु सिद्धिरेवाश्रयः। तथा अप्रयोगाद्-अव्यापारात्, स न सव्यापारोऽस्ति येन भवे स्थीयत इति ॥२९॥यदि स न तिष्ठत्यत्र तर्हि अधो यायात्!, नेत्याह-न-नैवाधो गच्छेन्मुक्तः । कुतः ?-गौरवस्य-गुरुत्वकारिकाष्टकस्याधोगमनहेतोर्विंगमाद्-अभावाद् । अशक्यभावात्-अशक्योऽयं भावो यत् सर्वकर्मविमुक्तोऽधो गच्छतीति । चः समुच्चये । तथा लोकान्तादपि न परं । गच्छति उपग्रहकारिधर्मद्रव्याभावात् । दृष्टान्तमाह-प्लवक इवेति, प्लवकः-तारकस्तद्वत् मण्डूकवत् यानपात्रवन्मत्स्यादिवइति । अयमर्थः-यथैते मण्डूकादयो जलाभावान्न स्थलं यान्तीति, तथा जीवोऽप्यलोकं न यातीति ॥ २९२ ॥ योगोमनःप्रभृतिः प्रयोगः-आत्मनः क्रिया तयोः कृतद्वन्द्वयोः चः समुच्चये अभावात् तिर्यग् न तस्य गतिरस्ति । तथा सिद्धस्य-मुक्तस्योर्ध्वगतिरेव भवति । कियत् ?, आलोकान्तात्-लोकान्तं यावदिति ॥ २९३ ॥
ARASS
Jain Education areal
For Private & Personel Use Only
Trainelibrary.org

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240