Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 192
________________ प्रशमरतिः हारि.वृत्तिः ॥ ५५॥ अकृतप्रदेशान्तरसमयान्तरसंस्पर्शा, येनैव समयेन गच्छति येष्वेव चाकाशप्रदेशेषु समारूढो गच्छति न तत् समयान्तरं प्रदे- मुक्तस्य शान्तरं वा स्पृशतीत्यर्थः । समयेनैकेनाविग्रहेण गत्वो -ऊर्ध्वगति तिर्यगादिव्यवच्छेदेन अप्रतिघो-न केनचिदपि प्रतिहन्तुं नाभावता शक्य इति ॥२८७॥ सिद्धिक्षेत्रे विमले-अशेषजन्मजरामरणरोगरहिते । स कीदृशः?-जन्मजरामरणरोगैःप्रसिद्धैर्निर्मुक्तः स. तथा । लोकाग्रगतो-लोकान्तप्राप्तः । त्यक्त्वा प्राप्य गत्वेति पूर्वक्रियात्रयस्योत्तरक्रियामाह-सिव्यति-सिद्धो भवति साका-1 रेणोपयोगेन-केवलज्ञानोपयोगेन। ततः परमुपयोगद्वयं सिद्धानामिति ॥२८॥ सादिक-यस्मिन् समये स सिद्धोऽजनि तमेवादि । कृत्वा अनन्तं पुनः क्षयाभावाद् अनुपम-उपमातीतं अव्याबाधसुख-व्यावाधारहितं सातमुत्तमं-सर्वोत्कृष्ट प्राप्तो-तवान् ।। तथा केवलानि-अद्वितीयानि सम्यक्त्वज्ञानदर्शनान्यात्मा-स्वरूपं यस्य स तथा । भवति मुक्तः कृत्स्नकर्मक्षयादिति ॥२८९॥ केषांचिदभावमात्रं मोक्षस्तन्निराकरणमाहमुक्तः सन्नाभावः खालक्षण्यात् खतोऽर्थसिद्धेश्च । भावान्तरसंक्रान्तेः सर्वज्ञानो(ज्ञो)पदेशाच ॥ २९॥ मुक्तः सन् जीवो नाभावो-नैवासद्पः । कुतः?-स्वालक्षण्याद-उपयोगलक्षणो जीव इति स्वरूपाद्धेतोः, अवस्थितोप-18 योगेन सततं व्याप्तत्वाजीवस्य । इदमपि कुतः?-स्वतोऽर्थसिद्धेः-जीवस्वाभाव्यादेवार्थानां-ज्ञानोपयोगादीनां सिद्धिजी ॥५५॥ वस्य निर्हेतुकैव तस्मात् स्वतोऽर्थसिद्धेः । यद्यपि छाद्मस्थितोपयोगात् कैवल्योपयोगान्तरमुदेति तथाऽप्युपयोगसाम्यान्न भिद्यते ज्ञानस्वभावत्वादि । तथा भावान्तरसंक्रान्तः सकाशान्मुक्तो नाभावो, भावो हि भावान्तरत्वेन संक्रामति, न Jan Education For Private Personal use only

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240