Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 194
________________ प्रशमरतिः हारि.वृत्तिः सिद्धस गतिहेतवः सुखं च ॥५६॥ यथा मुक्तस्य समयमेकं गतिर्भवति तथा हेतूनाह-" पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच । गतिपरिणामाच तथा सिद्धस्योर्ध्व गतिः सिद्धा॥ २९४॥ देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावस्तदभावे सिद्धं सिद्धस्य सिद्धिसुखम् ॥ २९५ ॥ सिद्धस्योधं गतिः सिद्धा । कुतः१, हेतुवृन्दात्, तदेवाह-पूर्वप्रयोगसिद्धेः कुम्भकारभ्रामितचक्रस्य कुम्भकारव्यापारा-1 भावेऽपि कियत्कालभ्रमणवत् । बन्धनच्छेदादेरंडफलवत् । असङ्गभावादलाबुवत् । अत्रार्थे आगमगाथा-"लाऊ एरंडफले अग्गी धूमे य इसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ॥१॥" त्ति ॥ २९४ ॥ देहमनोवृत्तिभ्यांशरीरचित्तवर्तनाभ्यां कृत्वा भवतो-जायते । के ?, अत आह-शारीरमानसे दुःखे इति, प्रतीतं । तथा तदभावो वर्तते, की-तदभावे-देहाद्यभावे, कारणाभावे कार्याभाव इत्यर्थः। ततः सिद्धं-प्रतिष्ठितं सिद्धस्य-मुक्तस्य सिद्धिसुखं इति ॥२९५॥ इति प्रशमरतेर्मुख्यफलमुक्तम्, अधुनावान्तरसुखपूर्वकं तदेवाहयस्तु यतिघंटमानः सम्यक्त्वज्ञानशीलसम्पन्नः। वीर्यमनिगूहमानः शक्त्यनुरूपं प्रयत्नेन ॥ २९६ ॥ संहननायुबलकालवीर्यसम्पत्समाधिवैकल्यात् । कातिगौरवाद्वा स्वार्थमकृत्वोपरममेति ॥ २९७॥ सौधर्मादिष्वन्यतमकेषु सर्वार्थसिद्धिचरमेषु । स भवति देवो वैमानिको महर्द्धिातिवपुष्कः ॥ २९८ ॥ तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥२९९ ॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः। श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्रः ॥ ३०॥ Jain Education H a For Private & Personel Use Only A gainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240