SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ *********H ARRRRRRRRRRIA सर्वथोच्छिद्यते प्रदीपवत् , यथा प्रदीपो भास्वररूपतामपहाय तामसरूपतां याति । तथा सर्वज्ञाज्ञोपदेशाच्च हेतो भावो, | सिद्धयोजिनागमभणनाच्चेति ॥ २९॥ प्रगतिः त्यक्त्वा शरीरबन्धनमिहैव कर्माष्टकक्षयं कृत्वा । न स तिष्ठत्यनिबन्धादनाश्रयादप्रयोगाच ॥ २९१ ॥ नाधो गौरवविगमादशक्यभावाच गच्छति विमुक्तः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥२९२॥ योगप्रयोगयोश्वाभावात्तिर्यग् न तस्य गतिरस्ति । सिद्धस्योवं मुक्तस्यालोकान्ताद्गतिर्भवति ॥ २९३ ॥ त्यक्त्वा-हित्वा । किं ?-शरीरमेव बन्धनं २ इहैव-मनुजभवे । तथा कृत्वा, किं ?-कर्माष्टकक्षयं न स तिष्ठति । कुतःअनिबन्धान्-मनुजादिभवकारणानामत्यन्तप्रलयात् । तथा अनाश्रयाच्च, मुक्तस्य हि मनुजभवो नाश्रयः, किंतु सिद्धिरेवाश्रयः। तथा अप्रयोगाद्-अव्यापारात्, स न सव्यापारोऽस्ति येन भवे स्थीयत इति ॥२९॥यदि स न तिष्ठत्यत्र तर्हि अधो यायात्!, नेत्याह-न-नैवाधो गच्छेन्मुक्तः । कुतः ?-गौरवस्य-गुरुत्वकारिकाष्टकस्याधोगमनहेतोर्विंगमाद्-अभावाद् । अशक्यभावात्-अशक्योऽयं भावो यत् सर्वकर्मविमुक्तोऽधो गच्छतीति । चः समुच्चये । तथा लोकान्तादपि न परं । गच्छति उपग्रहकारिधर्मद्रव्याभावात् । दृष्टान्तमाह-प्लवक इवेति, प्लवकः-तारकस्तद्वत् मण्डूकवत् यानपात्रवन्मत्स्यादिवइति । अयमर्थः-यथैते मण्डूकादयो जलाभावान्न स्थलं यान्तीति, तथा जीवोऽप्यलोकं न यातीति ॥ २९२ ॥ योगोमनःप्रभृतिः प्रयोगः-आत्मनः क्रिया तयोः कृतद्वन्द्वयोः चः समुच्चये अभावात् तिर्यग् न तस्य गतिरस्ति । तथा सिद्धस्य-मुक्तस्योर्ध्वगतिरेव भवति । कियत् ?, आलोकान्तात्-लोकान्तं यावदिति ॥ २९३ ॥ ARASS Jain Education areal For Private & Personel Use Only Trainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy