Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 163
________________ DROIDROSCRICKALAM यन्नास्ति तदुत्पादादित्रितयवदपि न भवति, खरविषाणवत् , अतो विकल्पद्वयमुक्तं-स्यादस्ति १ स्यान्नास्ति २, सदसद्वा द्रव्यात्मादि |भवतीति तृतीयविकल्पः, स्यादस्ति च नास्ति चेति ३, अन्यथा-अन्येन प्रकारेणाप्तिानर्पितविशेषादिति चत्वारो विकल्पाः सूचिताः, स्यादवक्तव्यं ४ स्यादस्ति चावक्तव्यश्च ५ स्यान्नास्ति चावक्तव्यश्च ६ स्यादस्ति च नास्ति चावक्तव्यश्चेति ७, तत्राद्यभङ्गद्वयं भावितार्थमेव । तृतीयस्तु अस्ति च नास्ति चेति, एकस्य घटादेव्यस्य देशो ग्रीवादिः सद्भावपर्यायेणादिष्टो वृत्तबुभत्वेन परगतपर्यायेण च तद्वस्तु अस्ति च नास्ति चेति भावना कार्या ३ इतश्चतुर्थो विकल्पः स्यादवक्तव्य इति, 8 सकलमेवाखण्डितं तद्वस्तु अर्थान्तरभूतैःपटादिपर्यायनिजैश्चोर्ध्वकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युपगद्-अभिन्नकाले समादिष्टं न त अस्तीति वक्तुं शक्यते न तु नास्तीति वक्तुं पार्यते, युगपदादेशद्वयप्राप्तौ वचनविशेषातीतत्वादेवावक्तव्यमिति ४ इतोऽस्ति चावक्तव्यश्चेति पञ्चमो विकल्पः, तस्यैव घटादेर्वस्तुन एको देशः सद्भावपर्यायैरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैश्च युगपदादिष्टः तद्रव्यमस्ति चावक्तव्यं च ५ अथ पष्ठो विकल्पः-स्यान्नास्ति चावक्तव्यश्च, तस्यैव घटादेव्यस्य एकदेशः परपोयरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैर्यश्च युगपदादिष्टस्तद् द्रव्यं नास्ति चावक्तव्यं च भवति ६ अथ सप्तमो विकल्पो भाव्यते-तदेव घटादि द्रव्यमेकस्मिन् देशे स्वपर्यायैरादिष्टं अन्यत्र देशे परपर्यायैरादिष्टं अपरत्र देशे स्वपर्यायैः परपर्यायैश्च | युगपदादिष्टं स्यादस्ति च नास्ति चावक्तव्यं चेति । एवमयं सप्तप्रकारो वचनविकल्पः, अत्र च सकलादेशास्त्रयः-स्यादस्ति १ स्यान्नास्ति २ स्यादवक्तव्यः ३, शेषाश्चत्वारो विकल्पा विकलादेशाः-स्यादस्ति च नास्ति च १ स्यादस्ति चावक्तव्यश्च २ G4SOLOSLULISUSHICHASIS Jain Educat onal For Private Personel Use Only PMw.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240