Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 177
________________ * शान्तवर्णनं H* धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा। सुखमास्ते निर्द्वन्द्वो जितेन्द्रियपरीषहकषायः॥२४१॥ | विषयसुखनिरभिलाषः प्रशमगुणगुणाभ्यलंकृतः साधुः। द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि ॥२४॥ शब्दादीनां विषयाणां परिणामस्तं ज्ञात्वेति सम्बन्धः। कीदृशं?-अनित्यं-अन्यथाभवनरूपं । कथम्?-एते विषयाः शुभा अशुभभावं यान्ति, अशुभाः शुभभावं यान्तीति । दुःख-दुःखकारणमेव च ज्ञात्वा-बुद्धा । ततो ज्ञात्वा च रागदोषात्मकानि दुःखानि । क?-संसारे ॥ २३९ ॥ यत एवमतः सुसाधुः किम् ?-स्वशरीरेऽपि न रज्यति-रागं न करोति । तथा शत्रावपि-अपकारकेऽपि न प्रदोष-प्रद्वेषमुपयाति-सामीप्येन गच्छति । तथा अव्यथितः-अपीडितः। कैरित्याह-रोगादि-13 मिर्भयैः । य एवंविधः स नित्यसुखीति ॥ २४०॥ तथा धर्मध्यानेऽभिरतः । तथा त्रिदण्डविरतो-दुष्टमनोवाक्वायत्रयानिवृत्तः । तथा त्रिगुप्तिगुप्तात्मा-मनोगुश्यादिभिः रक्षितजीवः । सुखमास्ते-एवंविधः सुखेन तिष्ठति । निर्द्वन्द्वो-निर्गताशेषकलहः । तथा जितेन्द्रियकषायपरीषह (परीषहकषायः) इति सुगममिति ॥२४१॥ विषयसुखनिरभिलाषः-शब्दादिसङ्गनिःस्पृहः प्रशमगुणगणाभ्यलंकृतो-विभूषितः साधुर्यथा द्योतयति न तथा सर्वाण्यादित्यतेजांसि-देवप्रभाः । किलैवंविधसाधूनां केवलावधयः सम्भाव्यन्ते, अतः परैरनभिभवनीयं च तेजः संभाव्यते ॥ २४२॥ ॥इति चरणाधिकारः॥ अयं च साधुः प्रशमवानेव शीलाङ्गाराधको भवतिसम्यग्दृष्टिानी विरतितपोध्यानभावनायोगैः। शीलाङ्गसहस्राष्टादशकमयत्नेन साधयति ॥ २४३ ॥ GUYSŁOGUAGS% Jnin Educa t ional For Private Personal use only linelibrary org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240