Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 184
________________ BA प्रशमरतिः हारि. वृत्तिः ध्यानानलप्रभाव: स तथा। निहतक्लेशः-अपगतदुःखः । यथा हि सर्वज्ञः-सर्वज्ञवद् । भाति-शोभते । न उपलक्ष्यते अनुपलक्ष्यो राहंशोमुखादिविभागस्तेनोन्मुक्तो-दुष्टग्रहांशविकल: पूर्णचन्द्र इव, एवं क्षीणमोहो भातीति दृष्टान्तद्वयमिति ॥ २६२॥ अथ तस्य ध्यानानलः किं करोतीत्याद्वयेनाह सर्वेधनैकराशीकृतसंदीप्तो ह्यनन्तगुणतेजाः। ध्यानानलस्तपःप्रशमसंवरहविर्विवृद्धबलः ॥२६३॥ क्षपकश्रेणिपरिगतः स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसंक्रमः स्यात् परकृतस्य ॥२६४॥ परकृतकर्मणि यस्मान्न कामति संक्रमो विभागो वा । तस्मात् सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥२६॥ स ध्यानानलः समर्थो वर्तत इति शेषः । किं कर्तुं ?-क्षपयितुं । किं तत्-कर्म । केषां ?-सर्वकर्मिणां-समस्तजीवानामित्याद्वयक्रियाकारकघटना । यदि किं ?-यदि स्याद्-भवेत् । कः?-संक्रमः-संक्रमणं । कस्य ?-कर्म इति विभक्तिलोपाकमणः। कीदृशस्य ?-परकृतस्य-अन्योपात्तस्य । कीदृशो ध्यानानलः?-एक:-अद्वितीयः । पुनः कीदृशः?-सर्वेन्धनानां कर्मणां च एकराशीकरणं-संचयकरणमेकराशीकृतं तेन संदीप्तो-देदीप्यमानः २। हि पूरणे । अयमों-भावेन्धनं कर्म तट्यानं दहति द्रव्येन्धनं काष्ठादि तदनलो दहतीत्येवमत्र द्रष्टव्यम् । तथाऽनन्तगुणं तेजो यस्य सोऽनन्तगुणतेजाः। क एवंविधः?-ध्यानमेवानल:-अग्निर्यथा तपःप्रशमसंवरा एव हविः-घृतं तेन विवृद्धं-विशेषवृद्धिमुपगतं बलं-सामर्थ्य यस्य स तथेति ॥२६३ ॥ तथा क्षपकश्रेणिपरिगत:-क्षपकश्रेणिसंस्थितः । शेषं योजितमेव । अयमत्र भावार्थः-स क्षीणमोहो ध्यानानलेनात्मीयं कर्म दग्ध्वा परकीयमपि दहेत् यदि कर्मसंक्रमः स्यादिति ॥२६४ ॥ न चैतदेवं, यतः-ज कामति S SOSIOS Jain Education S onal jainelibrary.org For Private Personel Use Only

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240