Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शेषक्षयावश्यंभावः
संक्रमः-समस्तकर्मप्रवेशो यस्मात्कारणात् । क ?-परकृतकर्मणि विषये । अथ सामस्त्येन मा संक्रामतु, एकदेशेन संक्रमः स्थाद, अत आह-विभागो वा न कामति-एकदेशेनापि न कामति, तस्मात् सत्त्वानां कर्म यस्य यत् तेन तद्वेद्यं, सर्वेषां प्राणिनां मध्ये यद् येन जीवेन बद्धं तत् तेन वेद्यते ॥ २६५ ॥
मोहनीयकर्मक्षयाद्विशेषतः कर्मक्षयोऽवश्यंभावीति दर्शयतिमस्तकशूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशः। तद्वत् कर्मविनाशो हि मोहनीयक्षये नित्यम् ॥२६॥ छद्मस्थवीतरागः कालं सोऽन्तर्मुहर्तमथ भूत्वा । युगपद्द्विविधावरणान्तरायकर्मक्षयमवाप्य ॥२६७॥
भवति । कोऽसौ ?-ध्रुवो विनाशः । कस्य ?-तालस्य-वृक्षविशेषस्य । कुतः?-मस्तकशूचिविनाशात् । तद्वत्-तथा । कर्मविनाशो मोहनीयक्षये भवति नियतमिति ॥ २६६ ॥ छद्मस्थवीतराग:-क्षीणमोहः सोऽन्तमुहूर्तकालं यावदथ भूत्वा-स्थित्वा युगपद्-एककालं द्विविधावरणान्तरायकर्मणां-ज्ञानदर्शनावरणान्तरायाख्यानां पञ्चचतुःपञ्चप्रभेदानां क्षयस्तमवाप्येति ॥२६७॥
इत्थं कर्मक्षयमवाप्य किं प्राप्तवानित्याहशाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं संप्राप्तः केवलं ज्ञानम् ॥ २६८॥ संप्राप्तः केवलं ज्ञानमिति सम्बन्धः। कीदृशं केवलज्ञानम् ?-शाश्वतं-लब्धात्मलाभं सत् सर्वकालभावि । तथा अनन्तंअपर्यवसानं । तथा अनतिशयं-अविद्यमानातिशयं । तथाऽनुपम-अविद्यमानोपर्म । तथा अनुत्तरं-अविद्यमानमुत्तरं ।
SHRS
A
M
For Private Personal Use Only
Jain Educati
.jainelibrary.org
o
nal

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240