SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ शेषक्षयावश्यंभावः संक्रमः-समस्तकर्मप्रवेशो यस्मात्कारणात् । क ?-परकृतकर्मणि विषये । अथ सामस्त्येन मा संक्रामतु, एकदेशेन संक्रमः स्थाद, अत आह-विभागो वा न कामति-एकदेशेनापि न कामति, तस्मात् सत्त्वानां कर्म यस्य यत् तेन तद्वेद्यं, सर्वेषां प्राणिनां मध्ये यद् येन जीवेन बद्धं तत् तेन वेद्यते ॥ २६५ ॥ मोहनीयकर्मक्षयाद्विशेषतः कर्मक्षयोऽवश्यंभावीति दर्शयतिमस्तकशूचिविनाशात्तालस्य यथा ध्रुवो भवति नाशः। तद्वत् कर्मविनाशो हि मोहनीयक्षये नित्यम् ॥२६॥ छद्मस्थवीतरागः कालं सोऽन्तर्मुहर्तमथ भूत्वा । युगपद्द्विविधावरणान्तरायकर्मक्षयमवाप्य ॥२६७॥ भवति । कोऽसौ ?-ध्रुवो विनाशः । कस्य ?-तालस्य-वृक्षविशेषस्य । कुतः?-मस्तकशूचिविनाशात् । तद्वत्-तथा । कर्मविनाशो मोहनीयक्षये भवति नियतमिति ॥ २६६ ॥ छद्मस्थवीतराग:-क्षीणमोहः सोऽन्तमुहूर्तकालं यावदथ भूत्वा-स्थित्वा युगपद्-एककालं द्विविधावरणान्तरायकर्मणां-ज्ञानदर्शनावरणान्तरायाख्यानां पञ्चचतुःपञ्चप्रभेदानां क्षयस्तमवाप्येति ॥२६७॥ इत्थं कर्मक्षयमवाप्य किं प्राप्तवानित्याहशाश्वतमनन्तमनतिशयमनुपममनुत्तरं निरवशेषम् । सम्पूर्णमप्रतिहतं संप्राप्तः केवलं ज्ञानम् ॥ २६८॥ संप्राप्तः केवलं ज्ञानमिति सम्बन्धः। कीदृशं केवलज्ञानम् ?-शाश्वतं-लब्धात्मलाभं सत् सर्वकालभावि । तथा अनन्तंअपर्यवसानं । तथा अनतिशयं-अविद्यमानातिशयं । तथाऽनुपम-अविद्यमानोपर्म । तथा अनुत्तरं-अविद्यमानमुत्तरं । SHRS A M For Private Personal Use Only Jain Educati .jainelibrary.org o nal
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy