________________
प्रशमरतिः | हारि, वृत्तिः
॥ ५२ ॥
Jain Education I
तथा निरवशेषं परिपूर्णत्वेनोपपत्तेः । तथा परिपूर्ण सकलज्ञेयग्राहित्वात् । तथा अप्रतिहतं सदा प्रतिघातकाभावात् । संप्राप्तः - प्राप्तवान् इति ॥ २६८ ॥
तस्मिन् केवलज्ञाने सति कीदृशः स्यादित्याह
कृत्स्ने लोकालोके व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्यगुणपर्यायाणां ज्ञाता द्रष्टा च सर्वार्थैः ॥ २६९ ॥ क्षीणचतुष्कर्माशो वेद्यायुर्नामगोत्रवेदयिता । विहरति मुहूर्तकालं देशोनां पूर्वकोटिं वा ॥ २७० ॥
लोकश्चालोकश्च लोकालोकं तत्र । कीदृशे ? - कृत्स्ने परिपूर्णे । व्यतीतसाम्प्रतभविष्यतः कालान्- कालत्रयं, आश्रित्येति | शेषः । द्रव्यगुणपर्यायाणां कृतद्वन्द्वानां, तत्र गुणपर्यायवद्रव्यं, सहभाविनो गुणाः, क्रमभाविनः पर्याया इत्यादिलक्षणभाजां सतां सचेतनाचेतनानां । ज्ञाता विशेषेण । द्रष्टा सामान्येन । सर्वार्थैः सर्वप्रकारैर्यथाऽन्तस्तथा बहिः यथा बहिस्त - थाऽन्तः इत्यादिकैरिति ॥ २६९ ॥ क्षीणचतुष्कर्माशः - अपगताशेषघातिकर्मा । तथा वेद्यायुर्नामगोत्रवेदयिता - भवोपग्राहि| कर्मणामनुभविता । एवंविधः सन् विहरति-भ्रमति । मुहूर्तकालं जघन्येन देशोनां पूर्वकोटिं वा उत्कृष्टत इति ॥ २७० ॥ ननु ज्ञानोत्पत्त्यनन्तरमेव किं न मोक्षं याति ?, यावता एतावन्तं कालं विहरति ?, उच्यते
तेनाभिन्नं चरमभवायुर्दुर्भेदमनपवर्तित्वात् । तदुपग्रहं च वेद्यं तत्तुल्ये नामगोत्रे च ॥ २७९ ॥ चरमभवायुः - चरमभवयोग्यं आयुः अभिन्नं क्षीरोदकवत् संस्थितं केवलिना दुर्भेदं भेत्तुमशक्यम् - अपनेतुमशक्यं ।
For Private & Personal Use Only
केवलस्वरूप
॥ ५२ ॥
www.jainelibrary.org