SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ SURSASCASSOCRESCASAS हेतुमाह-अनपवर्तित्वाद्-अनपवर्तनीयत्वात् । तथा वेद्यं च कीदृशं? तेन-आयुषोपगृह्यते-उपष्टभ्यते तदुपग्रह, 2- समुद्घात: अनपवर्तित्वात् । तथा तेनायुषा तुल्ये-तुल्यके नामगोत्रे चापि । स एव हेतुरिति ॥ २७१ ॥ ____ इति श्रेणिफलप्रतिपादनमार्यापञ्चदशकेन कृतम् । साम्प्रतं केवलिसमुद्घातं योगनिरोधं तत्कालं कर्मक्षयं च से प्रतिपादयन्नाहयस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम् ॥२७२॥ यस्य पुनः केवलिनः कर्म-कर्मत्रयं वेद्यनामगोत्राख्यं भवत्यायुषोऽतिरिक्ततरं-अतिशयेन समधिकं स केवली समुद्घात वक्ष्यमाणं भगवानथ गच्छति-करोति तस्य-आयुषः समीकर्तु २ । त्रीण्यपि कर्माणीति ॥ २७२ ॥ ॥इति श्रेण्यधिकारः १९॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥२७३ ।। संहरति पश्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ २७४ ॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ २७५॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७६।। दण्डं ऊर्ध्वाश्चतुर्दशरज्वात्मकं बाहल्यतः शरीरमानं प्रथमसमये-आद्यसमये करोति । कपाटमिव कपाट पूर्वापरला कान्तव्यापिनं अथचोत्तरे तथा समये करोति । मन्थानं दक्षिणोत्तरलोकान्तव्यापिनं अथ तृतीये समये । लोकव्यापी Jain Educati o nal For Private Personel Use Only
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy