SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ SURSASCASSOCRESCASAS हेतुमाह-अनपवर्तित्वाद्-अनपवर्तनीयत्वात् । तथा वेद्यं च कीदृशं? तेन-आयुषोपगृह्यते-उपष्टभ्यते तदुपग्रह, 2- समुद्घात: अनपवर्तित्वात् । तथा तेनायुषा तुल्ये-तुल्यके नामगोत्रे चापि । स एव हेतुरिति ॥ २७१ ॥ ____ इति श्रेणिफलप्रतिपादनमार्यापञ्चदशकेन कृतम् । साम्प्रतं केवलिसमुद्घातं योगनिरोधं तत्कालं कर्मक्षयं च से प्रतिपादयन्नाहयस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम् ॥२७२॥ यस्य पुनः केवलिनः कर्म-कर्मत्रयं वेद्यनामगोत्राख्यं भवत्यायुषोऽतिरिक्ततरं-अतिशयेन समधिकं स केवली समुद्घात वक्ष्यमाणं भगवानथ गच्छति-करोति तस्य-आयुषः समीकर्तु २ । त्रीण्यपि कर्माणीति ॥ २७२ ॥ ॥इति श्रेण्यधिकारः १९॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥२७३ ।। संहरति पश्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ २७४ ॥ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ २७५॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७६।। दण्डं ऊर्ध्वाश्चतुर्दशरज्वात्मकं बाहल्यतः शरीरमानं प्रथमसमये-आद्यसमये करोति । कपाटमिव कपाट पूर्वापरला कान्तव्यापिनं अथचोत्तरे तथा समये करोति । मन्थानं दक्षिणोत्तरलोकान्तव्यापिनं अथ तृतीये समये । लोकव्यापी Jain Educati o nal For Private Personel Use Only
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy