________________
प्रशमरतिः हारि. वृत्तिः
योगनिरोधः
॥ ५३॥
समस्तनिष्कुटव्यापनात् चतुर्थे तु समये भवति केवलीति ॥ २७३ ॥ संहरति-संक्षिपति पञ्चमे त्वन्तराणि, निष्कुटगतजीव- प्रदेशानित्यर्थः । मन्थानमथ पुनः षष्ठे, दक्षिणोत्तरलोकान्तगतजीवप्रदेशान् । सप्तमके तु कपाटं संहरति । ततोऽष्टमे दण्डं, जीवप्रदेशानिति ॥ २७४ ॥ औदारिकप्रयोक्ता-औदारिकशरीरव्यापारकः प्रथमाष्टमसमययोः-दण्डकरणसंहारलक्षणयोरसौ केवली इष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेष्विति ॥ २७५ ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च, त्रिष्वपि पूर्वोक्तस्वरूपेषु । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् , कार्मणशरीरव्यापारात् , तत्र अनाहारकत्वं “विग्गहगइमावन्ना" इति गाथया सिद्धम् ॥ २७६ ॥
॥ इति समुद्घातः २० ॥ स समुद्घातनिवृत्तोऽथ मनोवाकाययोगवान् भगवान् । यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ।।२७७॥ पञ्चेन्द्रियोज्य संज्ञी यः पर्याप्तो जघन्ययोगी स्यात् । निरुणद्धि मनोयोगं ततोऽप्यसंख्येयगुणहीनम् ॥२७८॥ द्वीन्द्रियसाधारणयोर्वागुच्छ्रासावधो जयति तद्वत् । पनकस्य काययोगं जघन्यपर्याप्तकस्याधः॥२७९॥ सूक्ष्मक्रियमप्रतिपाति काययोगोपगस्ततो ध्यात्वा । विगतक्रियमनिवर्ति त्वनुत्तरं ध्यायति परेण ॥ २८॥ चरमभवे संस्थानं याहा यस्योच्छ्रयप्रमाणं च। तस्मात्रिभागहीनावगाहसंस्थानपरिणाहः ॥ २८१ ॥ सोऽथ मनोवागुच्छासकाययोगक्रियार्थविनिवृत्तः। अपरिमितनिर्जरात्मा संसारमहार्णवोत्तीर्णः ॥२८२॥
For Private
Jain Education NIPI
orainelibrary.org
Personal Use Only