________________
योग
स मुनिः समुद्घातनिवृत्तोऽथ-अनन्तरं मनोवाकाययोगवान्-करणत्रयव्यापारवान् भगवान्-पूज्यः। यतियोग्यस्य-13 साधुजनार्हस्य योगस्य-व्यापारस्यानीतपीठफलकादेः प्रत्यर्पणमुपदेशादेर्योक्ता-व्यापारयिता २ । योगनिरोधमुपैति-च्छति
निरोधः ॥ २७७ ॥ येन क्रमेण योगनिरोधं करोति तमाह-पञ्चेन्द्रियोऽथ संज्ञी यः पर्याप्तः सन् जघन्ययोगी स्यात्-सर्वस्तोकयोगो भवेत् ततोऽप्यसंख्यातगुणहीनं मनोयोगं निरुणद्धीति ॥ २७८॥ द्वीन्द्रियश्च साधारणश्च तौ तथा तयोर्वागुच्छासौभाषाऽऽनपानौ कर्मतापन्नौ अधः कृत्वा जयति-निरुणद्धि तद्वत्-पूर्वोक्तमनोयोगवत्। तथा पनकस्य-उल्लिविशेषस्य जघन्ययोगिनः पर्याप्तकस्याधः-अधस्तादसंख्यातगुणहीनमित्यक्षरार्थः । तात्पर्य चेदम्-दीन्द्रियस्य साधारणस्य पनकस्य च त्रयो वागुच्छासकाययोगाः सर्वजघन्याः, तेभ्यः प्रत्येकमसंख्यातगुणहीनां वाचं असंख्यातगुणहीनमुच्छासमसंख्यातगुणहीनं काययोगं बादरं समये समये रुन्धन् केवली चतुर्वन्तर्मुहूर्तेषु गतेषु विश्रान्तिकृद्-अन्तर्मुहूर्तचतुष्टयसमन्वितेषु प्रथम मनोयोगं बादरं १ एवं बादरं वाग्योगं २ तत उच्छासं ३ ततः काययोग ४ अपान्तराले एकस्य २ अन्तर्मुहूर्तस्य विश्रम्येत्यष्टावन्तर्मुहूर्ता इति ॥२७९॥ ततो वादरे काययोगे निरुद्धे सति काययोगोपगतस्ततः सूक्ष्मक्रियया काययोगवर्ती केवली सूक्ष्ममनोयोग सूक्ष्मवाग्योगं (ग्रंथ १६००) निरुन्धन अन्तर्मुहूर्तद्वयेन सूक्ष्मकाययोगं प्रतिसमयं निरुन्धन , न चाद्यापि तस्य २ सर्वथा निरोधोजनि। एवंविधकाले सूक्ष्मक्रियमप्रतिपाति ध्यानं ध्यायति । ध्यात्वा ततः सूक्ष्मकाययोगेऽपि निरुद्धे
सति सर्वथा विगतक्रियं-अपगतक्रियमनिवर्ति-निवृत्तिरहितं पुनरनुत्तरं ध्यायति परेण-उपरीति ॥२८०॥ चरमभवे 5 संस्थानं यादृग् यस्य केवलिनः उच्छ्रयप्रमाणं च यत् तस्मादुच्छ्रयप्रमाणात् संस्थानप्रमाणाच्च त्रिभागहीनौ-त्रिभागशून्या
REC
Jain Education
cernational
For Private & Personel Use Only
Anjainelibrary.org