SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ शैलेशी प्रशमरतिः हारि. वृत्ति ॥५४॥ SRISRUSSAULAST ववगाहस्य-शरीरस्य संस्थानपरिणाहौ-संस्थित्युच्छ्रायौ यस्य स तथा । योगनिरोधकाल एवंविधप्रमाणः स्यादिति ॥ २८१॥ अथ योगनिरोधानन्तरं स केवली मनसो वाचः उच्छासस्य कायस्य च ये योगा याश्च क्रियाः ये चार्थाःप्रयोजनानि एतेषां यथायोगं समासः तेभ्यो विनिवृत्तो, योगत्रयसाध्यक्रियाविकलो यः स तथा । अपरिमितनिर्जरात्माअन्तर्मुहर्तमात्रेणैव पञ्चाशीतिकर्मक्षयकारी । संसारमहार्णवोत्तीर्णः-अपगताशेषसंसारभयः सन् । शैलेशीमेतीति वक्ष्यमाणेन सम्बन्धः ॥२८२ ॥ ॥ इति योगनिरोधाधिकारः २१॥ कीहशीमित्याहईषद्धखाक्षरपञ्चकोद्रिणमात्रतुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः॥२८३॥ पूर्वरचितं च तस्यां समयश्रेण्यामथ प्रकृतिशेषम् । समये समये क्षपयनसंख्यगुणमुत्तरोत्तरतः॥२८४॥ ईषत्-मनाक हस्वाक्षरपञ्चकस्योगिरणं-भणनं तस्य मात्रं-प्रमाणं तेन तुल्यकालीया तां-समानकालभवां संयमवीर्येण-संवरसामर्थ्येना वासबल:-प्राप्तसामर्थ्यः शैलेशी-परमनिष्ठाशब्दवाच्यामेति-गच्छति । स कीदृशः केवली ?-विगतलेश्यो-लेश्यारहित इति ॥ २८३ ॥ पूर्व-पुरा रचितं-स्थापितं पूर्वरचितं च तस्यां-शैलेश्यवस्थायां समयश्रेण्यामन्तर्मुहूर्तगतसमयप्रमाणायां अथ-अनन्तरं प्रकृतिशेष समये समये क्षपयन्-नाशयन् असंख्यगुणं-असंख्यातगुणं उत्तरोत्तरत-उत्तरोत्तरेषु समयेष्विति ॥२८४॥ RECESSAGAUSTRUMEROCES ॥५४॥ JainEducation a l For Private & Personel Use Only K ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy