________________
मुक्तिगतिः
अथचरमे समये संख्यातीतान् विनिहत्य चरमकर्माशान् । क्षपयति युगपत्कृत्वं वेद्यायुर्नामगोत्रगणम् ॥ २८५॥
चरमे समये-अन्त्यसमये संख्यातीतान्-असंख्यातान्, कान् ?-चरमकर्माशान्-उत्तरप्रकृतीस्त्रयोदशसंख्याः , किं?-| विनिहत्य-अपनीय ततो युगपद्-एककालं कृत्स्नं-परिपूर्ण, किं ?-वेद्यायुर्नामगोत्रगणं क्षपयति ॥ २८५॥
सांप्रतं यत्त्यक्त्वा सिद्धो यादृशीं च गति प्राप्तो यादृशं च तत् सिद्धक्षेत्रं यादृशश्चासौ यथा च तस्योर्ध्वगतिरेव यादृशं च सुखं तस्य स्याद् एतत्सर्वमभिधातुकाम आह
सर्वगतियोग्यसंसारमूलकरणानि सर्वभावानि । औदारिकतैजसकार्मणानि सर्वात्मना त्यक्त्वा ॥२८६॥ देहत्रयनिर्मुक्तः प्राप्यर्जुश्रेणिवीतिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोद्धमप्रतिघः ॥२८७ ॥ सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः। लोकाग्रगतः सिद्ध्यति साकारेणोपयोगेन ॥ २८८॥ सादिकमनन्तमनुपममव्याबाधसुखमुत्तमं प्राप्तः । केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः॥२८९॥
सर्वगतियोग्यश्चासौ संसारश्च २ तस्य मूलकरणानि-अस्य हेतवस्तानि तथा, किल एतेषु सत्सु सर्वगतयो बध्यन्ते, तथा सर्वान् भावान्-शुभाशुभादीन भावयन्ति सर्वभावानि, यद्वा पाठान्तरतः सर्वत्र भवनशीलानि सर्वभावीनि । कान्येवं
|| विधानीत्याह-औदारिकतैजसकार्मणानि प्रसिद्धानि सर्वात्मना त्यक्त्वा-विहायेति ॥ २८६ ॥ देहत्रयनिर्मुक्तः-अपगताशेषप्र. र.१०द देहत्रयकरणपञ्चाशीतिकर्मा, तथा प्राप्य-लब्ध्वा ऋजुश्रेणिवीति-अवक्रश्रेणिगति, विशिष्टा इतिवींतिरितिकृत्वा, अस्पशाम्
SESS805990 GESC942
Jain Educati
o
nal
For Private & Personal Use Only
M
ainelibrary.org