________________
BA
प्रशमरतिः हारि. वृत्तिः
ध्यानानलप्रभाव:
स तथा। निहतक्लेशः-अपगतदुःखः । यथा हि सर्वज्ञः-सर्वज्ञवद् । भाति-शोभते । न उपलक्ष्यते अनुपलक्ष्यो राहंशोमुखादिविभागस्तेनोन्मुक्तो-दुष्टग्रहांशविकल: पूर्णचन्द्र इव, एवं क्षीणमोहो भातीति दृष्टान्तद्वयमिति ॥ २६२॥
अथ तस्य ध्यानानलः किं करोतीत्याद्वयेनाह
सर्वेधनैकराशीकृतसंदीप्तो ह्यनन्तगुणतेजाः। ध्यानानलस्तपःप्रशमसंवरहविर्विवृद्धबलः ॥२६३॥ क्षपकश्रेणिपरिगतः स समर्थः सर्वकर्मिणां कर्म । क्षपयितुमेको यदि कर्मसंक्रमः स्यात् परकृतस्य ॥२६४॥ परकृतकर्मणि यस्मान्न कामति संक्रमो विभागो वा । तस्मात् सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥२६॥
स ध्यानानलः समर्थो वर्तत इति शेषः । किं कर्तुं ?-क्षपयितुं । किं तत्-कर्म । केषां ?-सर्वकर्मिणां-समस्तजीवानामित्याद्वयक्रियाकारकघटना । यदि किं ?-यदि स्याद्-भवेत् । कः?-संक्रमः-संक्रमणं । कस्य ?-कर्म इति विभक्तिलोपाकमणः। कीदृशस्य ?-परकृतस्य-अन्योपात्तस्य । कीदृशो ध्यानानलः?-एक:-अद्वितीयः । पुनः कीदृशः?-सर्वेन्धनानां कर्मणां च एकराशीकरणं-संचयकरणमेकराशीकृतं तेन संदीप्तो-देदीप्यमानः २। हि पूरणे । अयमों-भावेन्धनं कर्म तट्यानं दहति द्रव्येन्धनं काष्ठादि तदनलो दहतीत्येवमत्र द्रष्टव्यम् । तथाऽनन्तगुणं तेजो यस्य सोऽनन्तगुणतेजाः। क एवंविधः?-ध्यानमेवानल:-अग्निर्यथा तपःप्रशमसंवरा एव हविः-घृतं तेन विवृद्धं-विशेषवृद्धिमुपगतं बलं-सामर्थ्य यस्य स तथेति ॥२६३ ॥ तथा क्षपकश्रेणिपरिगत:-क्षपकश्रेणिसंस्थितः । शेषं योजितमेव । अयमत्र भावार्थः-स क्षीणमोहो ध्यानानलेनात्मीयं कर्म दग्ध्वा परकीयमपि दहेत् यदि कर्मसंक्रमः स्यादिति ॥२६४ ॥ न चैतदेवं, यतः-ज कामति
S SOSIOS
Jain Education
S
onal
jainelibrary.org
For Private Personel Use Only