________________
सदृशमिति ॥ २५७ ॥ शुक्लध्यानस्याद्यद्वयमवाप्य-पृथक्त्ववितर्क सविचारमिति एकत्ववितर्कमविचारमितिभेदरूपं । किं | करोति ?-मोहमुन्मूलयतीति सम्बन्धः । (ग्रंथ १५००) कीदृशं मोहम् ?-काष्टकप्रणेतारं-नायकं । तथा संसारस्यभवतरोर्मूलबीज-आद्यकारणं, मूलादारभ्योन्मूलयति-क्षपयतीति ॥ २५८ ॥ ___ अथ केन क्रमेण मोहोन्मूलनमित्याहपूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं क्षपयति सम्यक्त्वमिथ्यात्वम् ॥२५९॥ सम्यक्त्वमोहनीयं क्षपयत्यष्टावतः कषायांश्च ।क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥ २६०॥ हास्यादि ततः षटुं क्षपयति तस्माच पुरुषवेदमपि । संज्वलनानपि हत्वा प्रामोत्यथ वीतरागत्वम् ॥२६१॥ सर्वोद्धातितमोहो निहतक्लेशो यथा हि सर्वज्ञः। भात्यनुपलक्ष्यराद्वंशोन्मुक्तः पूर्णचन्द्र इव ॥ २६२॥
पूर्व करोति-प्रथमं विदधाति अनन्तानुबन्धिनाम्नां-तत्संज्ञकानां कषायाणां क्षयं-विनाशं । ततो मिथ्यात्वमोह एव गहनं २ भयानकत्वात् । ततःक्षपयति सम्यक्त्वमिथ्यात्वं-मिश्रमिति ॥ २५९ ॥ सम्यक्त्वं (क्त्वमोहनीयं)-क्षायोपशमिकपुञ्जरूपं चतुर्थगुणस्थानकाद्यप्रमत्तान्तानामन्यतरस्मिन् । अतः क्षपयत्यष्टौ कषायांश्च-द्वितीयतृतीयान् क्षपयति । ततो नपुंसकवेदं स्त्रीवेदमथ तस्मादिति ॥ २६ ॥ तत् षटुं, कीदृशम् ?-हास्यादि, तस्मात्पुरुषवेदमपि । संज्वलनानपि हत्वा क्षपकनेणिक्रमात् प्राप्नोति-लभते अथ वीतरागत्वं-क्षीणमोहो भवति । श्रेणिस्तु-"अणमिच्छमीससम्मं अट्ठनपुंसित्थिवेयछक्कं च । पुंवेयं च खवेइ कोहाईए य संजलणे ॥१॥” इति ॥ २६१॥ ततः सर्वः-अशेषः उद्घातितो-ध्वस्तो मोहो येन
SSSSSSSHOLOGRAR
Jain Education
For Private & Personel Use Only
Arijainelibrary.org