SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः सातं च-सुखं ऋद्धिश्च-विभूतिः रसश्च-अमृतकल्पाहारस्ते तथा तेषु । अगुरुः-गौरवरहितः । तथा प्राप्य-लब्ध्वा । निरीहता हारि. वृत्तिः । काम् ?-ऋद्धिविभूति-अणिमा महिमा लघिमा गरिमा ईशित्वं वशित्वं सर्वजनप्रियत्वमित्यादिकाम् । कीदृशीम् ?-असु-15 लभां-दुष्प्रापामन्यैः कापुरुषैः। सक्तः-आसक्तः।क-प्रशमे रतिः प्रशमरतिः सैव सुखं २ तस्मिन् प्रशमरतिसुखे, न-नैव ॥५०॥ भजति-करोति । कम् ?-सङ्गं-रागं । मुनिः-साधुः। व?-तस्याम्-ऋद्धाविति ॥ २५५ ॥ यस्यां सङ्गं न धत्ते मुनिस्तां स्वरूपत आहया सर्वसुरवरद्धिर्विस्मयनीयापि साऽनगारर्द्धः। नार्घति सहस्रभागं कोटिशतसहस्रगुणिताऽपि ॥ २५६ ॥ या सर्वसुरवरर्द्धि:-चतुर्विधेन्द्रविभूतिर्विस्मयनीयाऽपि-जनानन्दकारिणी अपि साऽनगारद्धेः-साधुजनविभूतेः सहस्रभागमपि न-नैवार्घति-नार्घ प्राप्नोति-न तुल्या भवतीत्यर्थः । कीदृश्यपि ?-कोटिशतसहस्रगुणिताऽपि-कोटिलक्षाभ्यस्ताऽपीति ॥ २५६ ॥ यद् तदुपरि तस्य स्यात्तदाहतज्जयमवाप्य जितविघ्नरिपुर्भवशतसहस्रदुष्पापम् । चारित्रमथाख्यातं संप्राप्तस्तीर्थकृत्तुल्यम् ॥ २५७ ॥ शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् ॥ २५८ ॥ ॥५०॥ तस्या जयः२-विभूत्यनुपजीवनमवाप्य-प्राप्य, को ?-जितविघ्नरिपुः-तिरस्कृतरागादिशत्रुः। संप्राप्तः। किंतत् ?-चारिपत्रम् । कीदृशम् ?-अथाख्यातं-यथा ख्यातं-भण्यते तथा । भवशतसहस्रदुष्प्रापं-बहुकाललभ्यं । तीर्थकृत्तुल्यं-जिनचारित्र Jain Education For Private Personel Use Only u ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy