SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ र साध्ववस्था CLOSESC CARLOSOPHORA मायापापः स चासौ निर्मलश्च स तथा तस्य । जितसर्वतृष्णस्य-निर्जिताशेषलोभस्येति ॥२५०॥ तुल्यौ-समानौ अरण्यकुलाकुलौ प्रदेशौ यस्य जीवस्य स तथा, तत्रारण्यं-अटवी कुलानि-उग्रादीनि तैराकुल:-आकीर्ण इति । विविक्तौ-पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य स तथा । ततोऽनयोः कर्मधारयस्तस्य । वासी चन्दनं च ते तथा, ताभ्यां कल्पनप्रदेहौ-छेदनविलेपने तावादी येषां ते तथा। समः-तुल्यो वासीचन्दनकल्पनप्रदेहादिषु देहः-शरीरं यस्य स तथा तस्य, इह प्रदेहशब्देनानुलेपनं 'दिह उपचय' इति धातुप्रयोगादिति ॥ २५१॥ आत्मारामस्य-कृतजीवाभिरतेः। सतः-शोभनस्य । समौ-तुल्यौ तृणमणी यस्य स तथा । मुक्त लेष्टुकनके येन स तथा । ततः कर्मधारयस्तस्य । स्वाध्यायध्यानपरायणस्येति व्यक्तं । दृढंअत्यर्थमप्रमत्तस्य-प्रमादरहितस्येति ॥ २५२ ॥ अध्यवसायविशुद्धेः सकाशात् प्रशस्तयोगैः-शुभमनोवाक्कायैर्विशुध्यमानस्यनिर्मलतां गच्छतः। तथा अवाप्य-प्राप्य । काम् ?-चारित्रशुद्धिम् । कीदृशीम् -अग्र्यां-उत्तरोत्तरकालभाविनीं । लेश्या| विशुद्धिं चेति ॥ २५३ ॥ तस्य-यतेः पूर्वोक्तानेकगुणान्वितस्य अपूर्वकरणं-प्राक्तनकर्मक्षयदक्षमुपजातं भवति । अथअनन्तरं । कीदृशम् ?-घातिकर्मणां चतुर्णा क्षयैकदेशः-असमस्तक्षयस्तदुत्थं-तत्प्रभवं । पुनः कीदृशम् ?-ऋद्धेःप्रवेका:-प्रकारा अवधिज्ञानादयस्त एव विभवास्ते विद्यन्ते यत्र तत्तथा।पुनः किंविशिष्टस्य साधोः?-जातभद्रस्य-समुत्पन्नकल्याणस्येति ॥२५४॥ ॥इति ध्यानाधिकारः॥ साम्प्रतं तामृद्धिं प्राप्यापि न तस्यां सङ्गं करोतीत्येतदाह| सातर्द्धिरसेष्वगुरुः प्राप्यर्द्धिविभूतिमसुलभामन्यैः। सक्तःप्रशमरतिसुखे न भजति तस्यां मुनिःसङ्गम् ॥२५॥ Jain Education a l For Private & Personal Use Only ainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy