________________
साध्यवस्था
प्रशमरतिः सम्बन्ध इति ॥२४७॥ तृतीयचतुर्यभेदयोः स्वरूपमाह-अशुभानि च यशीतिप्रमाणानि पूर्वोक्तानि शुभानि द्विचत्वारिंशत्यहारि. वृत्तिः माणानि च तानि च तानि कर्माणि च तेषां पाका-विपाका रसविशेषा एकद्वित्रिचतुःस्थानिकाः कथ्यमानकटुकमधुररसोनीय
मानस्वरूपास्तेषामनुचिन्तनमेवार्थो-वाच्यं यस्य स तथा। क एवंविधो?-विपाकविचय इति तृतीयभेदः स्यादिति । द्रव्याणि ॥४९॥
काषट् क्षेत्रम्-ऊवाधस्तिर्यग्लक्षणं तयोराकाराः-आकृतयस्तासामनुगमनं-चिन्तनं । तत्किं?-संस्थानविचयस्तु स्यादिति चतुर्थ
भेद इति ॥२४८॥ एकैकभेदं चिन्तयतो यत्स्यात्तदाह-तस्य शीलधारिणो जिनवरवचनगुणगणं प्रथममाज्ञाविचयं १ वधाद्यपायांश्च चिन्तयतो द्वितीयमपायविचयं २ कर्मविपाकान् विविधान् विचिन्तयतस्तृतीयं कर्मविपाकविचयं ३ संस्थानविधीननेकांश्च चतुर्थ संस्थानविचयमिति ॥ २४९ ॥
अग्रेतनानि साधुविशेषणान्याहनित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ॥ २५०॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥ २५१॥ आत्मारामस्य सतः समतृणमणिमुक्तलेष्टुकनकस्य । स्वाध्यानध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२॥ अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुध्यमानस्य । चारित्रशुद्धिमार्गमवाप्य लेश्याविशुद्धिं च ॥ २५३ ॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥ २५४ ॥ नित्योद्विग्नत्य-संसारस्योपरि उद्वेगं कुर्वतः क्षमाप्रधानस्य निरभिमानस्य-जितकोपाहङ्कारस्य धुतमायाकलिमल:-अपनीत
॥४९॥
Join Education
For Private Personel Use Only
Prainelibrary.org