SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ धर्मध्यान भेदार | पन्थाः, पाठान्तरतः पार:-पर्यन्तो वा यस्य स तथा । तस्य किमित्याह-प्राप्नुयात् लभते। किम् ?-वैराग्यम् । कीदृशम् ?| योग्य-उचितम् । तथा कीदृशः साधुरित्याह-उपगतः। किं तत् ?-धर्मध्यानमिति ॥ २४५ ॥ ॥ इति शीलाङ्गाधिकारः॥ तच्च धर्मध्यानं चतुर्धा पाहआज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ॥२४६॥ आप्तवचनं प्रवचनं चाज्ञा विचयस्तदर्थनिर्णयनम् । आस्रवविकथागौरवपरीषहाद्यैरपायस्तु ॥ २४७ ॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥२४८॥ जिनवरवचनगुणगणं संचिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान संस्थानविधीननेकांश्च ॥२४९॥ आज्ञाविचयमाद्यं अपायविचयं द्वितीयं सद्ध्यानयोग-सद्गुद्धिसम्पर्कमुपसृत्य-प्राप्य तस्मात् तदनन्तरं विपाकविचयंतृतीयं भेदं धर्मध्यानस्योपयाति-प्राप्नोति । संस्थानविचयं च चतुर्थभेदमिति ॥२४६॥ एतानेव लेशतो व्याचष्टेआप्तस्य-रागादिरहितस्य वचनमाप्तवचनं प्रवचनं च, किम् ?-आज्ञा, तस्या विचयः कः?, उच्यते, तदर्थनिर्णयनं, तस्या-1 आज्ञाया अर्थो-वाच्यः २ तस्य निर्णयनमिति। आम्रवाः-प्राणातिपातादयः विकथाः-स्त्रीकथाद्याः गौरवाणि-ऋद्धिप्रभृतीनि परीषहाः-शुदादयः एतदाद्यैरनुष्ठानैःशास्त्रनिषिद्धैर्योऽपायस्त्वैहिका पारत्रिकश्च,चिन्त्यते धर्मार्थिना सोऽपायविचयः स्यादिति in Eduent and For Private & Personal Use Only Mainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy