Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 189
________________ योग स मुनिः समुद्घातनिवृत्तोऽथ-अनन्तरं मनोवाकाययोगवान्-करणत्रयव्यापारवान् भगवान्-पूज्यः। यतियोग्यस्य-13 साधुजनार्हस्य योगस्य-व्यापारस्यानीतपीठफलकादेः प्रत्यर्पणमुपदेशादेर्योक्ता-व्यापारयिता २ । योगनिरोधमुपैति-च्छति निरोधः ॥ २७७ ॥ येन क्रमेण योगनिरोधं करोति तमाह-पञ्चेन्द्रियोऽथ संज्ञी यः पर्याप्तः सन् जघन्ययोगी स्यात्-सर्वस्तोकयोगो भवेत् ततोऽप्यसंख्यातगुणहीनं मनोयोगं निरुणद्धीति ॥ २७८॥ द्वीन्द्रियश्च साधारणश्च तौ तथा तयोर्वागुच्छासौभाषाऽऽनपानौ कर्मतापन्नौ अधः कृत्वा जयति-निरुणद्धि तद्वत्-पूर्वोक्तमनोयोगवत्। तथा पनकस्य-उल्लिविशेषस्य जघन्ययोगिनः पर्याप्तकस्याधः-अधस्तादसंख्यातगुणहीनमित्यक्षरार्थः । तात्पर्य चेदम्-दीन्द्रियस्य साधारणस्य पनकस्य च त्रयो वागुच्छासकाययोगाः सर्वजघन्याः, तेभ्यः प्रत्येकमसंख्यातगुणहीनां वाचं असंख्यातगुणहीनमुच्छासमसंख्यातगुणहीनं काययोगं बादरं समये समये रुन्धन् केवली चतुर्वन्तर्मुहूर्तेषु गतेषु विश्रान्तिकृद्-अन्तर्मुहूर्तचतुष्टयसमन्वितेषु प्रथम मनोयोगं बादरं १ एवं बादरं वाग्योगं २ तत उच्छासं ३ ततः काययोग ४ अपान्तराले एकस्य २ अन्तर्मुहूर्तस्य विश्रम्येत्यष्टावन्तर्मुहूर्ता इति ॥२७९॥ ततो वादरे काययोगे निरुद्धे सति काययोगोपगतस्ततः सूक्ष्मक्रियया काययोगवर्ती केवली सूक्ष्ममनोयोग सूक्ष्मवाग्योगं (ग्रंथ १६००) निरुन्धन अन्तर्मुहूर्तद्वयेन सूक्ष्मकाययोगं प्रतिसमयं निरुन्धन , न चाद्यापि तस्य २ सर्वथा निरोधोजनि। एवंविधकाले सूक्ष्मक्रियमप्रतिपाति ध्यानं ध्यायति । ध्यात्वा ततः सूक्ष्मकाययोगेऽपि निरुद्धे सति सर्वथा विगतक्रियं-अपगतक्रियमनिवर्ति-निवृत्तिरहितं पुनरनुत्तरं ध्यायति परेण-उपरीति ॥२८०॥ चरमभवे 5 संस्थानं यादृग् यस्य केवलिनः उच्छ्रयप्रमाणं च यत् तस्मादुच्छ्रयप्रमाणात् संस्थानप्रमाणाच्च त्रिभागहीनौ-त्रिभागशून्या REC Jain Education cernational For Private & Personel Use Only Anjainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240