________________
*
शान्तवर्णनं
H*
धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा। सुखमास्ते निर्द्वन्द्वो जितेन्द्रियपरीषहकषायः॥२४१॥ | विषयसुखनिरभिलाषः प्रशमगुणगुणाभ्यलंकृतः साधुः। द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि ॥२४॥
शब्दादीनां विषयाणां परिणामस्तं ज्ञात्वेति सम्बन्धः। कीदृशं?-अनित्यं-अन्यथाभवनरूपं । कथम्?-एते विषयाः शुभा अशुभभावं यान्ति, अशुभाः शुभभावं यान्तीति । दुःख-दुःखकारणमेव च ज्ञात्वा-बुद्धा । ततो ज्ञात्वा च रागदोषात्मकानि दुःखानि । क?-संसारे ॥ २३९ ॥ यत एवमतः सुसाधुः किम् ?-स्वशरीरेऽपि न रज्यति-रागं न करोति । तथा शत्रावपि-अपकारकेऽपि न प्रदोष-प्रद्वेषमुपयाति-सामीप्येन गच्छति । तथा अव्यथितः-अपीडितः। कैरित्याह-रोगादि-13 मिर्भयैः । य एवंविधः स नित्यसुखीति ॥ २४०॥ तथा धर्मध्यानेऽभिरतः । तथा त्रिदण्डविरतो-दुष्टमनोवाक्वायत्रयानिवृत्तः । तथा त्रिगुप्तिगुप्तात्मा-मनोगुश्यादिभिः रक्षितजीवः । सुखमास्ते-एवंविधः सुखेन तिष्ठति । निर्द्वन्द्वो-निर्गताशेषकलहः । तथा जितेन्द्रियकषायपरीषह (परीषहकषायः) इति सुगममिति ॥२४१॥ विषयसुखनिरभिलाषः-शब्दादिसङ्गनिःस्पृहः प्रशमगुणगणाभ्यलंकृतो-विभूषितः साधुर्यथा द्योतयति न तथा सर्वाण्यादित्यतेजांसि-देवप्रभाः । किलैवंविधसाधूनां केवलावधयः सम्भाव्यन्ते, अतः परैरनभिभवनीयं च तेजः संभाव्यते ॥ २४२॥
॥इति चरणाधिकारः॥ अयं च साधुः प्रशमवानेव शीलाङ्गाराधको भवतिसम्यग्दृष्टिानी विरतितपोध्यानभावनायोगैः। शीलाङ्गसहस्राष्टादशकमयत्नेन साधयति ॥ २४३ ॥
GUYSŁOGUAGS%
Jnin Educa
t
ional
For Private Personal use only
linelibrary org