________________
ANGREGA
शान्तवर्णनं
खाभिकालादिति द्विताइव मूक
प्रशमरतिः त गुणवतो यदिहैव स्यात्तदायद्वयेनाहहारि वृत्तिः खगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥ २३५ ॥
प्रशमाव्याबाधसुखाभिकांक्षिणः सुस्थितस्य सद्धर्म। तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥२३६॥ ॥४७॥
एवंविधसाधोरिहैव किमौपम्यं स्यादिति द्वितीयार्यायां सम्बन्धः, कीदृशस्य ?-स्वगुणानां-ज्ञानादीनामभ्यासस्तत्र रता मतिर्यस्य स तथा तस्य । परवृत्तान्तेषु-परतप्तिषु अन्ध इव मूक इव बधिर इव यस्तस्य । तथा अधृष्यस्य-अधर्षणीयस्य । कैः ?-मदादिभिः कृतद्वन्द्वैः षड्भिर्दोषैः सुगमार्थैरिति ॥ २३५ ॥ प्रशम एवाव्याबाधसुख-सकलबाधारहितं शर्म तस्याभिकांक्षिणः । पुनः किंविशिष्टस्य ?-सुस्थितस्य-सदा स्थितिमतः । व?-सद्धर्मे-सदाचारे । तस्य किमौपम्यं ?-किं साधर्म्य स्यात्-भवेत् । क?-सदेवमनुजेऽपि लोकेऽस्मिन् इति ॥ २३६ ॥
किमिति प्रशमसुखमेव प्रशस्यते इत्याहखर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न व्ययप्राप्तम् ॥ २३७॥ निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥२३८॥
स्वर्गेति स्पष्टा ॥ २३७ ॥ निर्जितेति सुबोधमेव ॥ २३८ ॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा। ज्ञात्वा चरागदोषात्मकानि दुःखानि संसारे॥२३९॥ ग्रंथ१४०० स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरवाधितो यः स नित्यसुखी ॥ २४०॥
| ॥४७॥
Jain Education
For Private Personal use only