________________
सम्पत्तावपि तेषां-तद्वतां भजनीयं-विकल्पनीयं भवति, कदाचिदस्ति कदाचिन्नास्ति । किं तत्-उत्तरं-चारित्रं, अविरतदेशविरतानामपि सद्भावात् , अन्यथा तेषामभाव एव स्यात् । उत्तरलामे पुनः-चारित्रलाभे तु पूर्वद्वयलाभः-सद्दर्शनज्ञानसद्भावः सिद्धो भवति-निश्चयेन जायत एव, चारित्रिणां सम्यक्त्वज्ञाने नियते एव भवत इति ॥ २३१॥
धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणामाराधको भवति ॥२३२॥
आराधनाश्च तेषां तिस्रस्तु जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिद्ध्यन्त्याराधकास्तासाम् ॥२३३ ॥ | तासामाराधनतत्परेण तेष्वेव भवति यतितव्यम् । यतिना तत्परजिनभत्त्युपग्रहसमाधिकरणेन ॥२३४॥ |
प्रमादपरिवर्जी जीवो ज्ञानादीनामाराधको भवति। कीदृशः?-भावितात्मा । केषु?-धर्मावश्यकयोगेषु स्पष्टार्थमेवेति ॥ २३२ ॥ आराधनाश्च-निष्पादनाश्च तेषां-दर्शनादीनां । कियत्यः-तिम्रस्तु । केन रूपेण ?-जघन्यमध्यमोत्कृष्टरूपा वर्तन्ते । कैः?-जन्मभिः । कियत्संख्यैः?-अष्टव्येकैः। ततः किं ?-सिध्यन्ति-मोक्षं यान्ति, जघन्येनाष्टभिः मध्यमेन त्रिभिः उत्कृष्टेनैकेन । क एते ?-आराधकाः जीवाः । कासां ?-तासां-ज्ञानादिसम्पदामिति ॥२३३ ॥ तदाराधकेन यादृशेन भाव्यं तदाह-तासां-ज्ञानादिसम्पदा आराधनतत्परेण-तत्सेवादत्तावधानेन तेष्वेव-सम्यक्त्वादिष्वेव भवति यतितव्यं । केन?-यतिना-साधुना का । केन कारणभूतेन ?-तत्परजिनभक्त्युपग्रहसमाधिकरणेन-तत्परा-ज्ञानाधाराधनपरायणाः सामर्थ्यात् साध्वादयस्ते च जिनाश्च ते तथा तेषु भक्तिश्च-बहुमान उपग्रहश्च-भक्तपानदानादिरूपः समा|धिश्च-स्वास्थ्यं तेषां करणं-क्रिया तेनेति ॥ २३४ ॥
Jain Education
For Private
Personal Use Only
Kanelibrary.org