Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 30
________________ प्राकृतानन्द अतोऽमः ॥ १५ ॥ अकारान्तात् परस्य अमः अकारस्य लोपः स्यात् । नारायणं नाराअणं । ननु 'सन्धावचाम् ० ' (१) इति अलोपेनैव भाव्यम् इति चेत्, न, तत्र बहुलग्रहणात् क्वचिदप्रवृत्तेरपि सम्भावनीयत्वात् । नारायणान् णाराअणा णाराअणे । टा-ऽऽमोर्णः ॥ १६ ॥ अकारान्तात् परयोः टा-ऽऽमोः णः स्यात् । नारायणेन णाराअणेण । नारायणानां णाराअणाणं । भिसो हिं ॥ १७ ॥ अकारान्तात् परस्य भिसो हिं इत्यादेशः स्यात् । नारायणैः णाराअणेहिं । चतुर्थ्याः षष्ठी ॥ १८ ॥ स्यात् । तथा हि । स्सो ङसः ॥ १९॥ अकारान्तात् परस्य उसः स्स इत्यादेशः स्यात् । नारायणाय णाराअणस्स । नारायणेभ्यः णाराअणाणं । ङसेः : आ-दो-दु-हयः ॥ २० ॥ अदन्तात् परस्य ङसेः आ दो दु हि इति प्रत्येकं चत्वार आदेशाः स्युः । नारायणात् णाराअणा णाराअणादो णाराअणादु णारायणाहि । 'जस्-शस्०' (१३) इति दीर्घः । यसो हिंतो सुत्तो ॥ २१ ॥ अदन्ताद् भ्यसो हिंतो मुत्तो इत्येतौ आदेशौ स्याताम् । नारापणेभ्यः णाराअणाहिंतो णाराअणासुत्तो । नारायणस्य णाराअणस्स ङः ए-म्मी ॥ २२ ॥ अदन्ताद् ङि इति सप्तम्येकवचनस्य ए म्मि इत्येतौ स्याताम् । कचिदू ङसि ङयोर्लोपः ॥ २३ ॥ ङसिङयोः परयोः कचिदतो लोपः स्यात् । नारायणे णाराअणे णारा अणम्मि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108