Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 48
________________ २१ प्राकृतानन्द इति चः। मिथ्या मिच्छा । विद्या विजा । क्षुणा छुणा । उक्षा उच्छा । मक्षिका मच्छिआ। कक्षा कच्छा। रक्षा रच्छा। पञ्चवपि अक्ष्यादित्वात् छः 'वर्गेषु०' (३७) इति चः। क्षमा छमा खमा, 'क्षमा-वृक्ष' (६७) इति छत्ववैकल्प्यात् पक्षे 'ष्क-स्क०' (५६) इति खः । "श्च-त्स-प्सा च्छः' (१२३) पश्चिमा पच्छिमा। विवत्सा विइच्छा (?)। लिप्सा लिच्छा। जुगुप्सा जुउच्छा, 'प्रायः' (१०) इत्युक्तेर्लोपाभावपक्षे जुगुच्छा । मूच्छों मुच्छा, “वर्गेषु०” (३७) इति चः। आङो ज्ञादेशस्य ॥ १७ ॥ 'न-ज्ञ०' (१२७) इति जातो यो णादेशः तस्य आङः परस्य द्वित्वं न स्यात् । आज्ञा आणा। सेवा सेव्वा सेवा, 'सेवादिषु' (१३२) इति द्वित्वम्। क्लिष्ट-श्लिष्ट-रत्न-क्रिया-शाङ्गेषु तत्स्वरवत् पूर्वस्य ॥ १७१ ॥ एषु युक्तस्य विप्रकर्षः स्यात् । विप्रकर्षितव्यस्य विप्रकर्षे जाते यः पूर्वो वर्णो निरर्थकस्तस्य विप्रकर्षितव्यस्वरता स्यात् । क्रिया किरिआ। अः क्ष्मा-श्लाघयोः ॥ १७२ ॥ युक्तस्य विप्रकर्षः स्यात्, पूर्वस्याकारः तत्स्वरता च । क्षमा खमा । विप्रकर्षितव्यस्य दीर्घत्वादीर्घत्वे प्राप्त हखो अकारो विधीयते । 'ष्क स्क०' (५६) इति खः । श्लाघा सलाहा, 'श-षोः०' (४४) इति सः, 'ख-घ.' (५९) इति हः। ज्यायामीत् ॥ १७३ ॥ ___युक्तस्य विप्रकर्षः स्यात्, पूर्वस्य ईकारः।ज्या जीआ अत्राप्याकारे प्राप्ते ईकारो विधीयते । ज्येत्यत्र विप्रकर्षकरणात् पूर्वम् 'अधो म-न-याम्' (४०) इति यलोपः, ततो घचेत् ‘कग०' (१०) इति । माला माला। शाला साला। आदीतौ बहुलम् ॥ १७४ ॥ स्त्रियामकारान्तादातः स्थाने आत् ईत् इत्येतौ बहुलं स्तः। सहमाना सहमाणा सहमाणी । वेपमाना वेवमाणा वेवमाणी । हरिद्रा हलद्रा(हा) हलद्दी । सूर्पनखा सुप्पणहा सुप्पणही । छाया छाहा छाही । का की। जा जी। ता ती। प्रश्नः पण्ही । समृद्धिः समिद्धी सामिद्धी, 'आ समृद्ध्या०' (४३) इति वा आकारः, ऋष्यादित्वाद् इः, 'सु-भिसू०' (१३८) इति दीर्घः । अभिजातिः आहिआई अहिआई, 'ख-ग' (५९) इति हः, 'कग०' (१०) इति जलोपः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108