Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्राकृतानन्द
अस्थिनि ॥ २१७ ॥ युक्तस्य ठः स्यात् । अस्थि अहिं । सक्थि सत्थिं । अक्षि अच्छि । गुरु गरअं, मुकुटादित्वाद् अ । श्मश्रुः मंसू, 'श्मश्रु-श्मशानयोः०' (२०१) इति शकारलोपः अश्रु अंसू, वक्रादित्वाद् अनुस्वारः। मधु महुं।
॥ इत्यजन्ता नपुंसकलिङ्गाः ॥
अनड्वान् अणडुओ, विष्णुवत् । चतुशब्दो नित्यं बहुवचनान्तः ।
चतुरश्चत्तारो चत्तारि ॥ २१८ ॥ चतुःशब्दस्य जसा शसा च सह एतावादेशौ स्याताम् । चत्वारः चत्तारो चत्तारि । चतुरः चत्तारो चत्तारि । चतुर्भिः चऊहिं । चतुर्व्यः चऊहिंतो चऊसुत्तो। चतुर्णा चउण्हं । चतुर्यु चऊसु।
किमः कः ॥२१९॥ स्पष्टम् । कः को । के के, 'सर्वादेः' (१३५) इति एत्वम् ।
इदम्-एतत्-कि-यत्-तद्यष्टा इणा वा ॥ २२० ॥ एभ्यः परः टा इणा इति वा स्यात् । केन कइणा केण ।
- त्तो दो ङसेः॥ २२१ ॥ किं-यत-तद्ब्रयो उसेः त्तो दो इत्येतावादेशौ वा स्याताम् । कस्मात् कत्तो कदो का कादो कादु काहि । केभ्यः काहिंतो कासुत्तो।
किं-यत्-तद्भयो ङस आसः ॥ २२२ ॥ एभ्यः परस्य ङस आस इत्यादेशो वा स्यात् । कस्य कास कस्स ।
आम एसिं ॥ २२३ ॥ इदम् एतत्-कि-यत्-तद्भ्यः परस्य आम एसिं इत्यादेशो वा स्यात् । केषां केसि काणं।
डेहि ॥ २२४ ॥ किं-यत्-तट्यो ः सप्तम्येकवचनस्य हिं इत्यादेशो वा स्यात् । कस्मिन् कहिं कस्सि कम्मि कत्थ ।
___ आहे इआ काले ॥ २२५ ॥ किं-यत्-तद्व्यः परस्य : काले वाच्ये आहे इआ इत्येतावादेशौ वा स्याताम् । कदा काहे कइआ कहिं कस्सि कम्मि कत्थ । केषु केसु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108