Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्राकृतानन्द सोच्छाहामि सोच्छामि सोच्छहिमि सोच्छमि सोच्छेस्सं सोच्छस्सं । श्रोतास्मः सोच्छिहिस्सा सोच्छेहिस्सा सोच्छाहिस्सा सोच्छिहित्था सोच्छेहित्था सोच्छाहित्था सोच्छहित्था सोच्छिस्सामो सोच्छेस्सामो सोच्छस्सामोसोच्छिहामो सोच्छेहामो सोच्छाहामोसोच्छहामो सोच्छि हिमो सोच्छिमो साच्छेहिमो सोच्छेमो सोच्छाहिमो सोच्छामो सोच्छहिमो सोच्छमो। श्रोष्यति सोच्छिहिइ इत्यादि । प्रथमे मध्यमस्यैकवचने च लुड्वत् । बहुवचने तु श्रोष्यथ =सोच्छिहिह सोच्छिह सोच्छेहिह सोच्छेह सोच्छहिह सोच्छह सोच्छिहित्थ सोच्छित्थ सोच्छेहित्थ सोच्छेइत्थ सोच्छहित्थ सोच्छइत्थ । मिपि लुट्वत्, मवि च । मुमयोस्तु यत्र मो इति तत्र मु-मौ प्रत्येकं प्रयोज्यौ । शृणोतु सुण्णउ । श्रृण्वन्तु सुणंतु । शृणु सुणसु । शृणुत सुणह । शृणोमि सुणमु । शृण्मः सुणमो । दृशिर प्रेक्षणे । इर् इत् ।
दृशेः पुलअ-णिअक्क-अवक्खाः ॥ ३६८ ॥ ज्यक्षरा आदेशाः स्युः । पश्यति पुलअइ णिअकइ अवक्खइ । दद्रष्ट पुलईअ णिअक्क(क्की?)अ अवक्खीअ । द्रष्टा दच्छिहिइ इत्यादि वोच्छवत् । कृषि विलेखने । कर्षति करिसइ । गम्ल गतौ गच्छति गमइ । गन्तास्मि गच्छं इत्यादि । इति भ्वादिः। अद भक्षणे।
शेषाणामदन्तता ॥ ३६९ ॥ लुप्तानुबन्धानां शेषाणामकारान्तत्वं स्यात् । अत्ति अअइ । हन हिंसा-गत्योः।
हन्तेमः ॥ ३७० ॥ हन्तेर्नस्य म्मः स्यात् । हन्ति हम्मइ । वच परिभाषणे । वक्ति वअइ। वक्ष्यामि वोच्छं इत्यादि सोच्छवत् । विद ज्ञाने । वेत्ति वेद वेअइ । वेत्स्यामि वेच्छं । अस भुवि । अस्ति अस्थि । सन्ति असन्ति ।
असेलॊपः ॥ ३७१ ॥ असो लोप: स्यात् थास्-सिपोः परयो । असि सि । थासोऽनुवृत्तिर्भाव-कर्मणोः सफला । स्थ त्थ ।
मि-मो-मु-मानामधो हश्च ॥ ३७२ ॥ . अस्तेः परेषां मि-मो-मु-मानामधो हः स्यात्, अस्तेश्च लोपः। अस्मि म्हि । स्मः म्हो म्ह म्हु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108