Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
पण्डित-रघुनाथ-कवि-विरचित
अस्तेरासिः ॥ ३७३ ॥ भूते निपातः । बभूव आसि । मृजूष शुद्धौ।
- मृजेलभ-पुसौ ॥ ३७४ ॥ ध्यक्षरौ स्याताम् । मार्टि लुभइ पुसइ 'सुप' इति पाठे सुपइ। रुदिर अश्रुविमोचने।
रुदेवः ॥ ३७५॥ रुदेर्दस्य वा स्यात् । रोदिति रुवइ । रुदिष्यामि रुच्छं, वोच्छवत् ।
इत्यदादयः।
हु दानादनयोः । जुहोति हुण्णइ, 'श्रु-हु-जि०' (३५०) इति पणः।
भी भये।
. भियो भा-बीहौ ॥ ३७६ ॥ भा बीह इत्येतावादेशौ स्याताम् । बिभेति भाइ बीहइ । पृ पालनपूरणयोः। पिपर्ति परइ । डुभृञ् धारण-पोषणयोः। बिभर्ति भरइ । माङ् माने ।
. निरो माङो माणः ॥ ३७७ ॥ निरः परस्य माङो माण इत्यादेशः स्यात् । निर्मिमीते णिम्माणइ । निरः किम् ? मिमीते माइ । डुदाञ् दाने । ददाति दाइ । दातास्मि दाहं । डुधाञ् धारण-पोषणयोः।
श्रदो धो दहः ॥ ३७८ ॥ श्रदः परस्य धो दह इत्यादेशः स्यात् । श्रद्दधाति सद्दहइ । श्रद इति किम् ? धाइ । विजिर पृथग्भावे ।
उदो विजः ॥ ३७९ ॥ उदः परस्य विजेजस्य वः स्यात् । उद्वेविक्ते उद्वेवेक्ति उव्विव्वइ । ऋ सृ गतौ । इयर्ति अरइ । ससर्ति सरइ । इति ह्रादयः।
दिवु क्रीडा-विजिगीषा-व्यवहारद्युति-स्मृति-मोद-मद-खम-कान्तिगतिषु । दीव्यति दिवइ । नृती गात्रविनामे । नृत्यति णच्चइ । त्रसि उद्वेगे।
... त्रसेर्वजः ॥ ३८० ॥ स्पष्टम् । त्रस्यति वजइ । ब्रीड चोदने लज्जायां च । बीड्यति वीलइ। खूङ् प्राणिप्रसवे । सूयते सूइ । दूङ् परितापे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108