Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 56
________________ प्राकृतानन्द ङसश्च द्वित्वं वाऽन्त्यलोपश्च ॥ २३६ ॥ राज्ञः परस्य सादेशस्य टादेशस्य च द्वित्वं वा स्यात् अन्त्यस्य च लोपः। राज्ञा रण्णा । पक्षे इदद्वित्वे ॥ २३७ ॥ उसादेशस्य टादेशस्य च द्वित्वाभावपक्षे राज्ञ इत्वं स्यात् । राइणा। राजभिः राएहिं 'शेषो०' (१३७) इत्यदन्तवद्भावः । राज्ञः राआ राआदो राआदु राआहि । राजभ्यः राआहिंतो राआसुत्तो। राज्ञः रण्णो राइणो। आमो णं ॥ २३८॥ राज्ञ उत्तरस्य आमः णं इत्यादेशः स्यात् । राज्ञां राआणं । राज्ञि राअम्मि राए । राजसु राएसु । आत्मनो अप्पाणो वा ॥ २३९ ॥ आत्मनः अप्पाण इत्ययमादेशो वा स्यात् । इत्व-द्वित्ववर्ज राजवदनादेशे ॥ २४० ॥ आत्मनः अनादेशे राजवत् कार्य स्यात्, [इत्व-द्वित्वे वर्जयित्वा]। आत्मा अप्पाणो अप्पा । 'राज्ञश्च' (२३०) इति आकार उक्तः सोऽनापि स्यात्। आत्मनः अप्पाणो। आत्मानं अप्पं । आत्मनः अप्पणो । आत्मना अप्पणा । आत्मभिः अप्पेहिं । आत्मनः अप्पा अप्पादो अप्पादु अप्पाहि । आत्मभ्यः अप्पाहिंतो अप्पासुत्तो। आत्मनः अप्पणो। आत्मनां अप्पाणं । आत्मभिः (त्मनि?) अप्पे अप्पम्मि । आत्मसु अप्पेसु। ब्रह्माद्या आत्मवत् ॥ २४१ ॥ ब्रह्मन् युवन् इत्यादयः शब्दाः आत्मवत् साधवः स्युः। ब्रह्मा बह्मा बह्माणो । युवा जुवा जुवाणो । अध्वा अद्धा अद्धाणो । एवमादयो लक्ष्यानुसारतो ज्ञेयाः। _न-सान्त-प्रावृट-शरदः पुंसि ॥ २४२ ॥ नश्च सश्च न-सौ अन्ते यस्य इति विग्रहः । एते पुंसि प्रयोक्तव्याः । कर्म कम्मो । जन्म जम्मो । चर्म चम्मो । आत्मयुक अप्पजू । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108