Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्राकृतानन्द
थासू-सिपोः सि से ॥ ३२४ ॥ धातोः परयोः थास्-सिपोः सि से इत्येतावादेशौ स्याताम् । यथासंख्यं न । भवसि = होसि हुवसि हुवेसि हुवसे हुवेसे । भवथः भवथहोह होइत्था हुवह हुवेह हुवइत्था हुवेइत्था हुवित्था, 'सन्धा०' (१) इत्यकारलोपो वा।
इट्-मयोर्मिः ॥ ३२५ ॥ इट मि इत्येतयोः मिः स्यात्।
। अत आ मिपि वा ॥ ३२६ ॥ अकारस्य आकारो वा स्याद् मिपि परे। भवामि = होमि हुवामि हुवेमि हुवमि।
इच्च बहुषु ॥ ३२७ ॥ मिपो बहुवचने परे अत इः स्याद् आ च । भवावः भवामः होमो होम होम हुवामो हुविमो हुवेमो हुवमो हुवामु हुविमु हुवेमु हुवमु हुवाम हुविम हुवेम हुवम । इति लट् । अथ लिट्
ईअ भूते ॥ ३२८ ॥ भूते काले धातोः परस्य प्रत्ययस्य ईअ इत्यादेशः स्यात् । बभूव
इअं भृते ॥ ३२९ ॥ भूते काले धातोः परस्य प्रत्ययस्य इअं इत्यादेशः स्यात् । बभूवहुवि।
. एकाचो हीअ ॥ ३३० ॥
भूते काले एकाचो धातोः परस्य प्रत्ययस्य हीअ इत्यादेशः स्यात् । बभूव =होहीअ। त्रीण्यपि रूपाणि प्रथम-मध्यमोत्तमैकवचन-द्विवचनबहुवचनेष्ववगन्तव्यानि ।
उ सु मु विध्यादिष्वेकस्मिन् ॥ ३३१ ॥ विध्यादेरेकवचनस्य क्रमेण उ सु मु इत्येते आदेशाः स्युः। बभूव होउ हुवेउ हुवउ।
न्तु ह मो बहुषु ॥ ३३२ ॥ विध्यादेबहुवचनस्य क्रमेण न्तु ह मो इत्येते आदेशाः स्युः। बभूवुः रोन्यु हुवेन्तु हुषन्तु । बभूषिय = होसु हुबेसु हुवसु-बभूव - होइ हुबेह
हुवी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108