Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१३
प्राकृतानन्द अम्हेहिंतो अम्हेसुत्तो भ्यसि ॥ २७४ ॥ अस्मद एतौ स्यातां भ्यसा मह । अस्मत् अम्हेहिंतो अम्हेसुत्तो।
मे मम मह मज्झ ङसि ॥ २७५ ॥ अस्मद एते स्युः ङसा सह । मम मे मम मह मज्झ । झस्य धत्वमपीच्छन्ति केचित् , मद्ध।
मज्झणो अम्हं अम्हाणं अम्हे आमि ॥ २७६ ॥ अस्मद एते स्युरामा सह । अस्माकम् मज्झणो अम्हं अम्हाणं अम्हे ।
ममम्मि ङौ ॥ २७७ ॥ अस्मदः अयं स्याद् ङया सह । मयि ममम्मि मइ मए ।
अम्हेसु सुपि ॥ २७८ ॥ अस्मदः अयं स्यात् सुपा सह । अस्मासु अम्हेसु ।
शरदो दः ॥ २७९ ॥ अत्रान्त्यहलो दः स्यात् । लोपापवादः। शरत् सरदो, 'नसान्त०' (२४२) इति पुंवद्भावः।
दिक्-प्रावृषोः सः ॥ २८० ॥ अनयोरन्त्यस्य सः स्यात् । लोपापवादः । प्रावृट् पाउसो । रत्नमुट् रअणम्।
अदसो दो मुः ॥ २८१ ॥ अदसो दकारस्य मु इत्यादेशः स्यात् सुपि ।
हश्च सौ ॥ २८२॥ अदसो दस्य हः स्यात् सौ । असौ अह अमू । हादेशोऽयं ओत्वआत्व-बिन्दून् परत्वाद् बाधते । अमी अमुए अमुणो । अमुम् अमुं। अमून् अमूओ। अमुना अमुणा। अमीभिः अमूहिं । अमुष्मात् अमूदो अमूदु अमूहि । अमीभ्यः अमूहिंतो अमूसुत्तो । अमुष्य अमुस्स । अमीषाम् अमुणं । अमुष्मिन् अमुस्सि अमुम्मि अमुत्थ । अमीषु अमूसु । तपः तवो । यशः जसो । सरः सरो।
। ॥ इति हलन्ताः पुंलिङ्गाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108