________________
प्राकृतानन्द
ङसश्च द्वित्वं वाऽन्त्यलोपश्च ॥ २३६ ॥ राज्ञः परस्य सादेशस्य टादेशस्य च द्वित्वं वा स्यात् अन्त्यस्य च लोपः। राज्ञा रण्णा । पक्षे
इदद्वित्वे ॥ २३७ ॥ उसादेशस्य टादेशस्य च द्वित्वाभावपक्षे राज्ञ इत्वं स्यात् । राइणा। राजभिः राएहिं 'शेषो०' (१३७) इत्यदन्तवद्भावः । राज्ञः राआ राआदो राआदु राआहि । राजभ्यः राआहिंतो राआसुत्तो। राज्ञः रण्णो राइणो।
आमो णं ॥ २३८॥ राज्ञ उत्तरस्य आमः णं इत्यादेशः स्यात् । राज्ञां राआणं । राज्ञि राअम्मि राए । राजसु राएसु ।
आत्मनो अप्पाणो वा ॥ २३९ ॥ आत्मनः अप्पाण इत्ययमादेशो वा स्यात् ।
इत्व-द्वित्ववर्ज राजवदनादेशे ॥ २४० ॥ आत्मनः अनादेशे राजवत् कार्य स्यात्, [इत्व-द्वित्वे वर्जयित्वा]। आत्मा अप्पाणो अप्पा । 'राज्ञश्च' (२३०) इति आकार उक्तः सोऽनापि स्यात्। आत्मनः अप्पाणो। आत्मानं अप्पं । आत्मनः अप्पणो । आत्मना अप्पणा । आत्मभिः अप्पेहिं । आत्मनः अप्पा अप्पादो अप्पादु अप्पाहि । आत्मभ्यः अप्पाहिंतो अप्पासुत्तो। आत्मनः अप्पणो। आत्मनां अप्पाणं । आत्मभिः (त्मनि?) अप्पे अप्पम्मि । आत्मसु अप्पेसु।
ब्रह्माद्या आत्मवत् ॥ २४१ ॥ ब्रह्मन् युवन् इत्यादयः शब्दाः आत्मवत् साधवः स्युः। ब्रह्मा बह्मा बह्माणो । युवा जुवा जुवाणो । अध्वा अद्धा अद्धाणो । एवमादयो लक्ष्यानुसारतो ज्ञेयाः।
_न-सान्त-प्रावृट-शरदः पुंसि ॥ २४२ ॥ नश्च सश्च न-सौ अन्ते यस्य इति विग्रहः । एते पुंसि प्रयोक्तव्याः । कर्म कम्मो । जन्म जम्मो । चर्म चम्मो । आत्मयुक अप्पजू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org