________________
पण्डित-रघुनाथ-कषि-विरचित
तदेतदोः सः सावनपुंसके ॥ २४३ ॥ अनयोर्यः तकारः तस्य सकारः स्यात् सौ । सः सो। ते ते । तं तं । तान् ता । तेन तहणा तेण । तैः तेहिं ।
तद ओश्च ॥ २४४ ॥ तदः परस्य उसेः ओ इत्ययमादेशो वा स्यात् । तस्मात् तओ तत्तो तदो तादो तादु ताहि । तेभ्यः ताहिंतो तासुत्तो।
ङसा से ॥ २४५॥ तदो ङसा सह से इत्यादेशो वा स्यात् । तस्य से तास तस्स ।
आमि सिं ॥ २४६॥ तद आमा सह सिं इत्यादेशो वा स्यात् । तेषां सिं तेसिं ताणं । तस्मिन् तहिं तस्सिं तम्मि तत्थ। तदा तहे तइआ । तेषु तेसु। एवं यः जो।
एतदः सावोत्वं वा ॥ २४७ ॥ एतद ओत्वं वा स्यात् सौ। एषः एसो एस, नित्यप्राप्तविभाषेयम् । एते एते । एतं एतं । एतान् एता । एतेन एदिणा एदेण । एतैः एदेहिं।
_ तो उसेः ॥ २४८ ॥ एतदः परस्य ङसेः त्तो इत्ययमादेशो वा स्यात् ।
- त्तो-त्थयोस्तो लोपः ॥ २४९ ॥ एतच्छब्दस्य तकारस्य लोपः स्यात् त्तो-त्थयोः परयोः। एतस्मात् एत्तो एदादो एदादु एदाहि । एतस्मिन् एत्थ एतस्सिं एतम्मि ।
पदस्य ॥ २५०॥ - इत्यधिकृत्य ।
युष्मदस्तं तुमं ॥ २५१ ॥ युष्मदः पदस्य तं तुम इत्यादेशौ स्यातां सावा सह । त्वं तं तुमं ।
तुज्झे तुम्हे जसि ॥ २५२ ॥ युष्मदः पदस्य तुज्झे तुम्हे इत्येतावादेशौ वा स्तः जसा सह । यूयं तुज्झे तुम्हे।
त्तं वाऽमि ॥ २५३ ॥ युष्मदः पदस्य तं इत्यादेशो वा स्यात् अमा सह । त्वाम् तं तुम।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org