Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
201८1f
"आच गौरवे ॥ १९७ ॥ गौरवशब्दे आ अउ ओ इत्येते स्युः। गौरवं गारवं गउरवं गोरवं इत्यादि । गर्भितं गम्भिणं, 'गर्भिते णः' (८०) इति णः।
डस्य च ॥ १९८ ॥ डकारस्यायुक्तस्य अनादिभूतस्य लः स्यात् । दाडिमं दालिमं । 'प्रायः' इत्यनुवृत्तेः कचिद् दाडिमं इत्यपि ।
ठो ढः ॥ १९९ ॥ अयुक्तस्य अनादिभूतस्य ठस्य ढः स्यात् । जठरं जढरं । कठोरं कढोरं।
__अंकोठे लः॥ २०॥ अत्र ठस्य ल्लः स्यात् । अंकोठं अंकोल्लं । सफलं सभलं, 'फो भः' (९१) इति भः। सुखं सुहं, 'ख-ग' (५९) इति हः । करुणं कलुणं, हरिद्रादित्वाद् रेफस्य लः।
श्मश्रु-श्मशानयोरादेः ॥ २०१॥ अनयोरादेर्वर्णस्य लोपः स्यात् । श्मशानं मसाणं ।
चौर्यसमेषु रिअं ॥ २०२ ॥ एषु यस्य रिअं इत्यादेशः स्यात् । चौर्य चोरिअं । शौर्य सोरिअं। 'औत ओत् (७३) इति ओत् । वीर्य वीरिअं।
पर्यस्त-पर्याण-सौकुमार्येषु लः ॥ २०३ ॥ . एषु यस्य ल्लः स्यात् । पर्यस्तं पल्लत्थं, 'स्तस्य थ' (५७) इति था, 'शेषादेश' (३५) इति द्वित्वम् । पर्याणं पल्लाणं । सौकुमार्य सोअमल्लं, मुकुटादित्वाद् अ।
पत्तने ॥ २०४॥ युक्तस्य दः । पत्तनं पट्टणं । क्षीरं छीरं, अक्ष्यादित्वात् छः । श्लक्ष्णं सण्हं । तीक्ष्णं तिण्हं । 'ह-ल.' (४९) इति बहादेशः।
चिह्ने धः॥ २०५॥ युक्तस्य धः स्यात् । ण्हापवादः । चिहं चिन्धं, प्रायिकमेतत् , चिण्हं ।
ष्पस्य फः ॥ २०६॥ स्पष्टम् । पुष्पं पुष्पं । शष्पं सफं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108