Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
पण्डित-रघुनाथ-कवि-विरचित
अद् दुकूले वा लस्य द्वित्वम् ॥ १८९ ॥ दुकूलशब्दे ऊकारस्य अकारो वा स्यात्, तत्सन्नियोगेन च लस्य द्वित्वम् । दुकुलं दुअल्लं दुऊलं।
एन्नूपुरे ॥ १९० ॥ नूपुरशब्दे ऊकारस्य एत् स्यात् । अत्र 'आदेः' इति प्रयोजनाभावाद् नानुवर्तते । नूपुरं णेउरं । ऋणं रिणं, 'ऋ रि:' (?) इति रि । हृदयं हिअयं, ऋष्यादित्वाद् इः। वृन्दावनं बुंदावणं, 'ऋतोऽत्' (१२०) इति प्राप्ते ऋत्वादित्वाद् उः।
लतः क्लुप्त इलि ॥ १९१ ॥ क्लप्तशब्दे लकारस्य इलिः स्यात् । क्लुप्तं किलित्तं । त्रैलोक्यं तेल्लोक, 'ऐत् एत्' (६९) इति एत्, सेवादित्वात् द्वित्वम् , द्वित्ववैकल्प्यात् पक्षे तेलोकं । शैत्यं सेत्तं । खैरं सइरं। वैरं वइरं। द्वयोरप्यैकारस्य 'दैत्यादिषु०' (६८) इति अइः।
दैवे वा ॥ १९२॥ दैवशब्दे ऐकारस्य अइरित्यादेशो वा स्यात् ।
नीडादिषु च ॥ १९३ ॥ एषु अनादौ तिष्ठतो हलो वा द्वित्वम् । दैवं देवं देवं दइवं । नीड स्रोत प्रेम व्याहृत जनक यौवन दैव इत्यादयः नीडादिः।
__ इत् सैन्धवे ॥ १९४ ॥ अत्र एकारस्य इकारः स्यात् । एत्वापवादः । सैन्धवं सिन्धवं ।
ईद धैर्ये ॥ १९५ ॥ अत्र एकारस्य ईत् स्यात् । एत्वापवादः।
तूर्य-धैर्य-सौन्दर्या-ऽऽश्चर्य-पर्यन्तेषु ः॥ १९६ ॥ एषु यस्य रः । धैर्य धीरं । तूर्य तूरं । सौन्दर्य सुन्दरं, 'उत् सौन्दर्यादिषु' (७६) इति उः। आश्चर्य अच्छेरं, 'श्व-त्स.' (१२५) इति छः। पर्यन्तं पेरंतं । त्रिष्वपि शय्यादित्वाद् एत्वम् । यौवनं जोवणं, 'औत
ओत्' (७३) इति ओत्, 'आदेर्यो जः' (३९) इति जः, नीडादित्वात् द्वित्वम् , 'नो ण:०' (९) इति णः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108