Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
पण्डित रघुनाथ-कवि-विरचित
अक्ष्यादिषु छः॥ ११८ ॥ एषु क्षस्य छः स्यात् । क्षुब्धः छुद्धो । उत्क्षिप्तः उच्छित्तो। 'उपरि०' (३६) इति पलोपः। सहक्षः सरिच्छो, 'क-ग०' (१०) इति दलोपः, ऋ रिः। ऋक्षः रिच्छो । अक्षि लक्ष्मी क्षुण्ण क्षीर क्षुब्ध उत्क्षिप्त सहक्ष इक्षु उक्षा क्षार ऋक्ष मक्षिका क्षुर क्षुत क्षेत्र वक्ष उदक्ष कुक्षि कक्षा रक्षा अक्ष्यादिः । क्षणः छणो खणो। .
म-यक्ष्म-विस्मयेषु म्हः ॥ ११९ ॥ ष्म इत्यस्य यक्ष्म-विस्मययोश्च युक्तस्य म्हादेशः स्यात् । विस्मयः विम्हओ । स्नातः पहाओ, 'ह-ल० (४९) इति ण्हादेशः।
ऋतोऽत् ॥ १२०॥ ऋत आदेः अत् स्यात् । कृष्णः कण्हो । प्रश्नः पण्हो।
इत एत् पिण्डसमेषु ॥ १२१॥ एषु इकारस्य एत्वं स्यात् । समग्रहणं संयोगपरमुपलक्षयति । विश्नः वेण्हो।
__ स्पस्य सर्वत्र स्थितस्य ॥ १२२ ॥ फः स्यात् । स्पन्दः फंदो। निस्पन्दः णिफंदो।
बाष्पेऽश्रुणि हः ॥ १२३ ॥ बाष्पशब्दे ष्पस्य हः स्यात् , अश्रुणि वाच्ये । बाष्पः बाहो, 'न र-हो' (११४) इति द्वित्वनिषेधः । अश्रुणि किम् ? बाष्पः बाफो ऊष्मा, वक्ष्यमाणः 'पस्य फः' (२०६)।
कार्षापणे ॥ १२४ ॥ युक्तस्य हादेशः स्यात् । कार्षापणः कहावणो, 'पो वः' (८५) इति वः।
श्व-त्स-प्सां छः ॥ १२५ ॥ त्रयाणां छः स्यात् । पाश्चात्यः पच्छत्तो । वत्सः वच्छो । ईप्सितः इच्छिओ।
नोत्सुकोत्सवयोः ॥ १२६ ॥ अनयोः त्सस्य छादेशो न स्यात् । उत्सुकः ऊसुओ । उत्सवः ऊसवो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108