Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 42
________________ प्राकृतानन्द म्न-ज्ञ-पञ्चाशत् पञ्चदशेषु णः ॥ १२७ ॥ न-ज्ञ इत्येतयोः पञ्चाशत्-पञ्चदशशब्दयोश्च युक्तस्य णः स्यात् । प्रद्युम्नः पज्जुण्णो, 'त्य ध्य०' (७१) इति ज्जः । यज्ञः जण्णो । भिन्दिपाले ण्डः ॥ १२८ ॥ १५ युक्तस्य ण्डः स्यात् । भिन्दिपाल: भिंडिवालो, 'पो वः' (८५) इति वः । विह्वले म्भ-हौ वा ॥ १२९ ॥ युक्तस्य एतौ वा स्याताम् । विह्वलः विंभलो विहलो । न बिन्दुपरे ॥ १३० ॥ अनुखारात् परस्य द्वित्वं न स्यात् । सङ्क्रान्तः संकंतो । समासे वा ॥ १३१ ॥ समासे शेषा-ssदेशयोर्वा द्वित्वं स्यात् । 'शेषा०' (३५) इत्यत्र 'अनादी' इत्युक्तेः अप्राप्तविभाषेयम्, अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदादित्वात् । छायाग्रामः छायाग्गामो छाहागामो, 'छायायां ह: ' ( १६८) इति वक्ष्यमाणेन हः । सेवादिषु ॥ १३२ ॥ एषु अनादौ स्थितस्य हलो द्वित्वं वा स्यात् । निहितः णिहित्तो णिहिओ, 'न र-हो:' ( ११४ ) इति निषेधाद् न हस्य द्वित्वम् । तूष्णीकः तुहिक्को तुहिओ, 'ह-ल०' (४९) इति ण्हः । दुःखितः दुक्खिओ, पक्षे 'ख घ० ' (५९) इति हः, दुहिओ । द्वित्वपक्षे 'वर्गेषु' ( ३९ ) इति कः । विश्रामः वसामो विसामो । निःश्वासः णिस्सासो णीसासो । पुष्यः पुस्सी पूसो । सेवा एक नख दैव अशिव त्रैलोक्य निहित तूष्णीक कर्णिकार दीर्घरात्रि दुःखित अश्व ईश्वर विश्राम निःश्वास रश्मि मित्र पुष्य सेवादिः । उभयत्र विभाषेयम्, सेवादीनामप्राप्ते दीर्घादीनां 'शेषा०' (३५) इति प्राप्ते । कृष्णे वा ॥ १३३ ॥ अत्र युक्तस्य विप्रकर्षो वा स्यात्, पूर्वस्य तदचूकता च । कृष्णः किसणो कण्हो । व्यवस्थितविभाषेयम्, तेन वर्णवाचके विप्रकर्षः, भगवति न इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108