Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
पण्डित-रघुनाथ-कविविरचित
यावदादिषु वस्य ॥ १३४ ॥ __ लोपः। अनुवर्तमानः अणुअत्तमाणो। यावत् तावत् पारावत अनुवर्तमान जीवित एवं एव अवट देवकुल यावदादिः। आकृतिगणोऽयम् । सर्वः सबो।
___ सर्वादेर्जस एत्वम् ॥ १३५ ॥ स्पष्टम् । सर्वे सवे । सर्व सवं । सर्वान् सवा । सर्वेण सवेण । सर्वैः सवेहिं । सर्वस्मै सबस्स । सर्वेभ्यः सवाणं । सर्वस्मात् सवा सवादो सवादु सबाहि, 'ङसेः०' (२०) इत्यादेशाः। सर्वेभ्यः सबाहिंतो सवासुत्तो । सर्वस्य सवस्स । सर्वेषाम् सवाणं ।
स्सि-म्मि-त्थाः ॥ १३६ ॥ सर्वादेः परस्य : इति सप्तम्येकवचनस्य स्सि म्मि स्थ इति त्रय आदेशाः स्युः। सर्वस्मिन् सबस्सि सबम्मि सवत्थ । सर्वेषु सवेसु । विश्व: विस्सो। उभौ उहे । उभशब्दस्य द्विवचनान्तत्वाद् द्विवचनस्य बहुवचनादेशः। संस्कृते प्रसिद्धः सर्वादिः॥
शेषोऽदन्तवत् ॥ १३७ ॥ शेषस्तु विधिः अदन्तवत् स्यात् । तेन आकारान्तादपि 'अत ओत सोः' (८) इत्यादि विधिः प्रवर्त्तते । विश्वपाः विस्सवो इत्यादि ।
सु-भिसू-सुप्सु दीर्घः ॥ १३८ ॥ इदुदन्तयोः दीर्घः स्याद् एषु परेषु । 'अन्त्यस्य हलः' (२६) इति सोर्लोपः, अग्निः अग्गी । 'अधो०' (४०) इति न लोपः।
जस ओश्च यूत्वम् ॥ १३९ ॥ इदुदन्तयोः परस्य जस ओ इत्यादेशः स्याद् णो च, पूर्वस्य ईकारोकारौ च स्याताम् । अग्नयः अग्गीओ अग्गीणो। पाठान्तरे तु
__ जस ओ वो वाऽत्वं यूत्वं च ॥ १४० ॥ इदुदन्तयोः शब्दयोर्जसः ओ वो इत्येतावादेशौ स्याताम् , अत्वम् ईत्वम् ऊत्वं च विकल्पेन स्यात् णो च । पक्षे अदन्तवत् । अग्नयः अग्गीओ अग्गीवो अग्गीणो अग्गओ अग्गवो अग्गी। हे अग्ने हे अग्गि। अग्निं अग्गिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108