Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्राकृतानन्द
इदुतोः शसो णो ॥ १४०० ॥ इदुदन्तयोः शसो णो स्यात् । अग्नीन् अग्गियो ।
टा णा ॥ १४१ ॥ इदुदन्तयोः टाया णा इत्यादेशः स्यात् । अग्निना अग्गिणा।
न ङि-ङस्योरेदातौ ॥ १४२ ॥ इदुदन्तयोः परयोः डि-ङस्योः एत् आत् इत्येतौ न स्याताम् । अग्नेः अग्गीदो अग्गीदु अग्गीहि । ङि-ङस्योरिति किम् ? समृद्ध्या समिद्धीए समिद्धीआ। 'टा-ङसू-डीनाम्' (१६०) इति एत्-आतौ।
ए भ्यसि ॥१४३ ॥ इदुदन्तयोः भ्यसि एत्वं न स्यात् । अग्निभ्यः अग्गीहितो अग्गीसुत्तो।
ङसो वा ॥ १४४ ॥ - इदुदन्तयोः उसो णो वा स्यात् । पक्षे 'शेषो.' (१३७) इत्यतिदेशात् 'ङसः स्स' (१९) इति स्सः । अग्नेः अग्गीणो [अग्गिस्स]। अग्नीनाम् अग्गीणं । अग्नौ अग्गिम्मि । अग्निषु अग्गीसु । ऋषिः इसी, 'इद् ऋष्यादिषु' (४८) इति इत्वम् । .
बृहस्पती ब-होर्भ-औ॥ १४५ ॥ अत्र बकार-हकारयोः क्रमेण भकाराकारौ स्याताम् । बृहस्पतिः भअप्पई, 'उपरि०' (३६) इति सलोपः, 'शेषा०' (३५) इति द्वित्वम्, 'क-ग' (१०) इति तलोपः, 'सु-भिस' (१३८) इति दीर्घः । गृहपतिः, गहवई, 'पो वः' (८५) इति वः ॥ द्विशब्दो नित्यं द्विवचनान्तः।
द्वेर्दुवे दोणि वा ॥ १४६ ॥ द्विशब्दस्य जसा शसा च सह दुवे दोणि इत्येतावादेशौ स्याताम् । द्वौ दुवे दोणि।
द्वेर्दो ॥ १४७ ॥ द्विशब्दस्य दो अयमादेशः स्यात् सुपि । द्वाभ्याम् दोहिं । द्वाभ्याम् दोहितो दोसुत्तो।
एषामामो ण्हं ॥ १४८ ॥ द्वि-त्रि-चतुरामामो ण्हं इत्यादेशः स्यात् । णापवादः। द्वयोः दोण्हं। द्वयोः दोसु। त्रिशब्दो नित्यं बहुवचनान्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108