Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 45
________________ पण्डित-रघुनाथ-कवि-विरचित तिण्णि जस-शस्भ्याम् ॥ १४९ ॥ जसा शसा च सह त्रिशब्दस्य तिणि इत्यादेशः स्यात् । त्रयः तिण्णि। त्रेस्ती ॥१५॥ त्रिशब्दस्य ती इत्यादेशः स्यात् सुपि । त्रिभिः तीहिं । त्रिभ्यः तीहितो तीसुत्तो। त्रयाणाम् तीण्हं त्रिषु तीसु । सखा सही । सखायः सहीओ सहीणो। हे सहि । सखायम् सहिं । सखीन् सहिणो इत्यादि। पतिः पई । 'इत एत्' (१२१) इति एत्, विष्णुः वेण्हू । जहुः जण्हू । इक्षुः उच्छ्, 'उद् इक्षु०' (४६) इति उत्वम्, अक्ष्यादित्वात् छः । ऋतुः उदू, 'उद् ऋत्वादिषु' (२९) इति उत्वम्, 'ऋत्वादिषु' (६२) इति दः। स्थाणावहरे ॥ १५१ ॥ युक्तस्य खादेशः स्यात्, न तु हरे अभिधेये । स्थाणुः खाणू । हरवाचके तु थाणू, 'उपरि०' (३६) इति सलोपः, विष्णुवत् । 'य-शय्या' (११२) इति जा, अभिमन्युः अहिमज्जु । करेणुः सूर्यः करेणू सुज्जो। ऋत आरः सुपि ॥ १५२ ॥ ऋकारस्य आरः स्यात् सुपि । भर्ता भत्तारो॥ उर्जस्-शस्-टा-ङस्-सुप्सु वा ॥ १५३ ॥ जसि शसि टायां उसि सुपि च ऋकारस्य स्थाने उर्वा स्यात् । आरापवादः। भर्तारः भत्तारा भत्तूओ भत्तुणो, 'जस ओ०' (१३९) इति ओत्वं णो च । हे भर्तः हे भत्तारा । भर्तृन् भत्तुणो, 'इदुतोः०' (१४०) इति णो । भर्ना भत्तुणा भत्तारेण । भर्तृभिः भत्तारेहिं । भर्तुः भत्तुस्स भत्तारस्स । भर्तृणां भत्ताराणं । भर्तरि भत्तारम्मि । भर्तृषु भत्तुसु भत्तारेसु। पितृ-भ्रातृ-जामातृणामरः॥ १५४ ॥ एषाम् ऋत अरः स्यात् सुपि । आरापवादः। आच सौ ॥१५५ ॥ पित्रादीनाम् आत स्यात् सौ परे। पिता पिआ पिअरो इत्यादि । भ्राता भाआ भाअरो। जामाता जामाआ जामाअरो इत्यादि। इत्यजन्ताः पुंल्लिङ्गाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108