________________
पण्डित-रघुनाथ-कवि-विरचित
तिण्णि जस-शस्भ्याम् ॥ १४९ ॥ जसा शसा च सह त्रिशब्दस्य तिणि इत्यादेशः स्यात् । त्रयः तिण्णि।
त्रेस्ती ॥१५॥ त्रिशब्दस्य ती इत्यादेशः स्यात् सुपि । त्रिभिः तीहिं । त्रिभ्यः तीहितो तीसुत्तो। त्रयाणाम् तीण्हं त्रिषु तीसु । सखा सही । सखायः सहीओ सहीणो। हे सहि । सखायम् सहिं । सखीन् सहिणो इत्यादि। पतिः पई । 'इत एत्' (१२१) इति एत्, विष्णुः वेण्हू । जहुः जण्हू । इक्षुः उच्छ्, 'उद् इक्षु०' (४६) इति उत्वम्, अक्ष्यादित्वात् छः । ऋतुः उदू, 'उद् ऋत्वादिषु' (२९) इति उत्वम्, 'ऋत्वादिषु' (६२) इति दः।
स्थाणावहरे ॥ १५१ ॥ युक्तस्य खादेशः स्यात्, न तु हरे अभिधेये । स्थाणुः खाणू । हरवाचके तु थाणू, 'उपरि०' (३६) इति सलोपः, विष्णुवत् । 'य-शय्या' (११२) इति जा, अभिमन्युः अहिमज्जु । करेणुः सूर्यः करेणू सुज्जो।
ऋत आरः सुपि ॥ १५२ ॥ ऋकारस्य आरः स्यात् सुपि । भर्ता भत्तारो॥
उर्जस्-शस्-टा-ङस्-सुप्सु वा ॥ १५३ ॥ जसि शसि टायां उसि सुपि च ऋकारस्य स्थाने उर्वा स्यात् । आरापवादः। भर्तारः भत्तारा भत्तूओ भत्तुणो, 'जस ओ०' (१३९) इति ओत्वं णो च । हे भर्तः हे भत्तारा । भर्तृन् भत्तुणो, 'इदुतोः०' (१४०) इति णो । भर्ना भत्तुणा भत्तारेण । भर्तृभिः भत्तारेहिं । भर्तुः भत्तुस्स भत्तारस्स । भर्तृणां भत्ताराणं । भर्तरि भत्तारम्मि । भर्तृषु भत्तुसु भत्तारेसु।
पितृ-भ्रातृ-जामातृणामरः॥ १५४ ॥ एषाम् ऋत अरः स्यात् सुपि । आरापवादः।
आच सौ ॥१५५ ॥ पित्रादीनाम् आत स्यात् सौ परे। पिता पिआ पिअरो इत्यादि । भ्राता भाआ भाअरो। जामाता जामाआ जामाअरो इत्यादि।
इत्यजन्ताः पुंल्लिङ्गाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org