Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 33
________________ पण्डित-रघुनाथ-कवि-विरचित मयूर-मयूख-योर्खा वा ॥ ४२ ॥ अनयोः यूशब्देन सह आदेः अत ओत्वं वा स्यात् मयूरः मोरो। मयूखः मोहो । पक्षे 'क-ग०' (१०) इति यलोपः, मऊरो मऊहो । आ समृयादिषु वा ॥ ४३ ॥ अविभक्तिको निर्देशः । 'सविसर्गः पाठः' इति केचित् । एषु आदेः अकारस्य आकारो वा स्यात् । समृद्धि प्रकट अभिजाति मनखिनी प्रतिपत् सदृक्ष प्रतिस्पर्द्धि प्रसुप्त प्रसिद्धि अश्व । आकृतिगणोऽयम् । __ शषोः सः॥४४॥ सर्वत्र शस्य षस्य च सः स्यात् । अश्वः आसो अस्सो। अदातो यथादिषु वा ॥ ४५ ॥ एषु आतः स्थाने वा अत् स्यात् । प्रहारः पहरो पहारो 'सर्वत्र' (३४) इति रलोपः । हालिकः हलिओ हालिओ। यथा तथा प्राकृत तालवृन्त उत्खात चामर प्रहार चाटु दावाग्नि खादित संस्थापित मृगाङ्क हालिक यथादिः। उद् इक्षु-वृश्चिकयोः॥ ४६ ॥ अनयोः इत उत् स्यात् । वृश्चिके छः॥४७॥ युक्तस्य स्यात् । वक्ष्यमाणश्च-त्स-प्सां छः' (१२४) इति च्छत्वापवादः। इद् ऋष्यादिषु ॥ ४८॥ एषु ऋकारस्य इत् स्यात् । वृश्चिकः विञ्छुओ। ऋषि वृषी गृष्टि सृष्टि दृष्टि शृङ्गार मृगाङ्क भृङ्ग भृङ्गार हृदय वितृष्ण बृंहित कृशरा कृत्या वृश्चिक कृपा शृगाल कृति कृत्ति कृषि ऋष्यादिः । शृङ्गारः सिंगारो । मृगाङ्क: मिअंको, यथादित्वाद् आत अः। भृङ्गः भिंगो । भृङ्गारः भिंगारो। ह्न-स्त्र-ष्ण-क्षण-श्नां ण्हः॥ ४९ ॥ एषां ण्हादेशः स्यात् । वितृष्णः वितिण्हो। शृगालः सिआलो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108