Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्राकृतानन्द
ईत सिंह-जिह्वयोश्च ॥ ५० ॥ अनयोः इत ईत् स्यात् । सिंहः सीहो ।
इद् ईतः पानीयादिषु ॥ ५१ ॥ एषु ईत इत् स्यात् । करीषः करिसो । पानीय अलीक वीडित व्यलीक गृहीत तदानीम् करीष द्वितीय तृतीय गभीर पानीयादिः ।
एत् नीडा-ऽऽपीड-कीडगीदृशेषु ॥ ५२ ॥ एषु ईत एत् स्यात् ।
आपीडे मः ॥ ५३ ॥ पस्य मः स्यात् । लोपं बाधित्वा प्राप्तस्य 'पो वः' (८५) इति वक्ष्यमाण-व-त्वस्यापवादः । आपीडः आमेलो।
क्वचिद् युक्तस्यापि ॥ ५४॥ वर्णान्तरेण युक्तस्यापि ऋकारस्य कचिद् रिः स्यात् । 'क-ग' (१०) इति द-लोपः । कीदृशः केरिसो। ईदृशः एरिसो। .
उत ओत् तुण्डरूपेषु ॥ ५५ ॥ संयुक्तवर्णपरोकारेषु उत ओत् स्यात् ।
क-स्क-क्षां क्खः ॥ ५६ ॥ एषां क्खादेशः स्यात् । पुष्करः पोक्खरो।
स्तस्य थः ॥ ५७ ॥ स्यात् । 'उपरि लोप:०' (३६) इत्यस्यापवादः। पुस्तकः पोत्थओ। लुब्धकः लोओ।'उत ओत्' (५५) इत्यस्य प्रायिकत्वात् लुद्धओ। अत्र 'सर्वत्र' (३४) इति ब-वयोरैक्याद् लोपे शेषस्य धस्य 'शेषा' (३५) इति द्वित्वे दपूर्वो धकारः।
अन्मुकुटादिषु ॥ ५८ ॥ एषु आदेः उतः अत् स्यात् । मुकुट मुकुल गुरु गुर्वी युधिष्ठिर सौकुमार्य मुकुटादिः । 'आदेखें जः' (३९) इति जः, 'उपरि०' (३६) इति षलोपः, 'शेषा' (३५) इति द्वित्वम् ।
ख-घ-थ-ध-भां हः ॥ ५९॥ एषां पश्चानामयुक्तानामनादिवर्तिनां हादेशः स्यात् । ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108