SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्राकृतानन्द ईत सिंह-जिह्वयोश्च ॥ ५० ॥ अनयोः इत ईत् स्यात् । सिंहः सीहो । इद् ईतः पानीयादिषु ॥ ५१ ॥ एषु ईत इत् स्यात् । करीषः करिसो । पानीय अलीक वीडित व्यलीक गृहीत तदानीम् करीष द्वितीय तृतीय गभीर पानीयादिः । एत् नीडा-ऽऽपीड-कीडगीदृशेषु ॥ ५२ ॥ एषु ईत एत् स्यात् । आपीडे मः ॥ ५३ ॥ पस्य मः स्यात् । लोपं बाधित्वा प्राप्तस्य 'पो वः' (८५) इति वक्ष्यमाण-व-त्वस्यापवादः । आपीडः आमेलो। क्वचिद् युक्तस्यापि ॥ ५४॥ वर्णान्तरेण युक्तस्यापि ऋकारस्य कचिद् रिः स्यात् । 'क-ग' (१०) इति द-लोपः । कीदृशः केरिसो। ईदृशः एरिसो। . उत ओत् तुण्डरूपेषु ॥ ५५ ॥ संयुक्तवर्णपरोकारेषु उत ओत् स्यात् । क-स्क-क्षां क्खः ॥ ५६ ॥ एषां क्खादेशः स्यात् । पुष्करः पोक्खरो। स्तस्य थः ॥ ५७ ॥ स्यात् । 'उपरि लोप:०' (३६) इत्यस्यापवादः। पुस्तकः पोत्थओ। लुब्धकः लोओ।'उत ओत्' (५५) इत्यस्य प्रायिकत्वात् लुद्धओ। अत्र 'सर्वत्र' (३४) इति ब-वयोरैक्याद् लोपे शेषस्य धस्य 'शेषा' (३५) इति द्वित्वे दपूर्वो धकारः। अन्मुकुटादिषु ॥ ५८ ॥ एषु आदेः उतः अत् स्यात् । मुकुट मुकुल गुरु गुर्वी युधिष्ठिर सौकुमार्य मुकुटादिः । 'आदेखें जः' (३९) इति जः, 'उपरि०' (३६) इति षलोपः, 'शेषा' (३५) इति द्वित्वम् । ख-घ-थ-ध-भां हः ॥ ५९॥ एषां पश्चानामयुक्तानामनादिवर्तिनां हादेशः स्यात् । ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003397
Book TitlePrakrutanand
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1962
Total Pages108
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy