________________
पण्डित रघुनाथ-कधि-विरचित
हरिद्रादीनां रो लः॥६॥ एषामयुक्तस्य रेफस्य लादेशः स्यात् । युधिष्ठिरः जहिढिलो । हरिद्रा चरण मुखर युधिष्ठिर करुण अङ्गुरी अङ्गार किरात परिखा परिघ हरिद्रादिः । चरणः चलणो । मुखर मुहलो । अङ्गारः इंगालो, 'इद ईषत्' (२८) इति इत्वम् ।
किराते चः॥६१ ॥ अत्र आदेः चः स्यात् ।
ऋत्वादिषु तो दः ॥ ६२ ॥ एषु तस्य दः स्यात् । किरातः चिलादो। ऋतु रजत आगत निवृति आकृति संवृति सुकृति हत संयत विवृत सञ्जात सम्प्रति प्रतिपत्ति ऋत्वादिः।
___ परुष-परिघ-परिखासु फः ॥ ६३ ॥ एषु आदेः फः स्यात् । परुषः फरुसो । परिघः फलिहो । आगतः आअदो। हतः हदो । संयतः संजदो, 'आदेो जः' (३९) इति जः। सम उपसर्गत्वाद् यत इति यकारस्य आदिस्थत्वम् ।
इत् पुरुषे रोः ॥६४॥ अत्र रोः उत इत् स्यात् । पुरुषः पुरिसो। रोरिति किम् ? पकाराद् उकारस्य मा भूत् ।।
अयुक्तस्य रिः ॥६५॥ वर्णान्तरेण अयुक्तस्य ऋकारस्य रिः इत्यादेशः स्यात् । ऋद्धः रिद्धी।
वृक्षे वेन रुवा ॥ ६६ ॥ ___ वृक्षशब्दे वशब्देन सह ऋकारस्य रुः वा स्यात् । व्यवस्थितविभाषेयम् , तेन च्छत्वपक्षे न भवति, खत्वपक्षे तु स्यादेव ।
क्षमा-वृक्ष-क्षणेषु वा ॥ ६७॥ एषु क्षस्य वा च्छः । पक्षे 'ष्क-स्क०' (५६) इति खा, 'ऋतोऽत्' (१२०) इति वक्ष्यमाणेन अकारः । वृक्षः वच्छो रुक्खो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org